Book Title: Panchastikay Samaysar
Author(s): Kundkundacharya, Pannalal Bakliwal
Publisher: Paramshrut Prabhavak Mandal
View full book text
________________
रायचन्द्रजैनशास्त्रमालायाम् अयं हि स्थूललक्ष्यतया केवलभक्तिप्राधान्यस्य ज्ञानिनो भवति । उपरितनभूमिकायामलब्धास्पदस्यास्थानरागनिषेधार्थ तीव्ररागज्वरविनोदार्थ वा कदाचिज्ज्ञानिनोऽपि भवतीति ॥ .. [१३७] अनुकम्पास्वरूपाख्यानमेतत् । कश्चिदुदन्यादिदुःखप्लुतमवलोक्य करुणया तत्प्रतिचिकीर्षाकुलितचित्तत्वमज्ञानिनोऽनुकम्पा । ज्ञानिनस्त्वधस्तनभूमिकासु विहरमाणस्य जन्मार्णवनिममजगदवलोकनान्मनाग्मनःखेद इति ॥
[१३८] चित्तकलुषत्वस्वरूपाख्यानमेतत् । क्रोध-मान-मायालोभानां तीव्रोदये चित्तस्य क्षोभः कालुष्यम् । तेषामेव मन्दोदये तस्यै प्रेसादोऽकालुष्यम् । तत् कादाचित्कविशिष्टकषायक्षयोपशमे सत्यज्ञानिनोऽपि भवति । कषायोदयानुवृत्तेरसमग्रव्यावर्तितोपयोगस्यावान्तरभूमिकासु कदाचित् ज्ञानिनोऽपि भवतीति ॥
[ १३९ ] पापास्रवस्वरूपाख्यानमेतत् । प्रमादबहुलच-परिणतिः, कालुष्यपरिणतिः, विषयलौल्यपरिणतिः, परपरितापपरिणतिः, परापवादपरिणतिश्चेति पञ्चाशुभा भावा द्रव्यपापासवस्य निमित्तमात्रत्वेन कारणभूतत्वात्तदास्रवक्षणादूर्ध्व भावपापासवः । तन्निमित्तोऽशुभकर्मपरिणामो योगद्वारेण प्रविशतां पुद्गलानां द्रव्यपापास्रव इति ॥
[ १४० ] पापासवभूतभावप्रपञ्चाख्यानमेतत् । तीव्रमोहविपाकप्रभवा आहारभयमैथुनपरिग्रहसंज्ञास्तीवकषायोदयानुरञ्जितयोगप्रवृत्तिरूपाः कृष्णनीलकपोतलेश्यास्तिस्रः । रागद्वेषोदयप्रकर्षादिन्द्रियाधीनत्वरागद्वेषोद्रेकात्प्रियसंयोगाऽप्रियवियोगवेदनामोक्षणनिदानाकाङ्क्षणरूपमात । कषायक्रूराशयत्वाद्धिसोऽसत्यास्तेयविषयसंरक्षणानन्दरूपं रौद्रम् । नैष्कर्म्यन्तु शुभकर्मणश्चान्यत्र दुष्टतया प्रयुक्तं ज्ञानम् । सामान्येन दर्शनचारित्रमोहनीयोदयोपजनिताविवेकरूपो मोहः । एषः भावपापास्रवप्रपञ्चो द्रव्यपापास्रवप्रपञ्चप्रदो भवतीति ॥
इति आस्रवपदार्थव्याख्यानं समाप्तम् ।
अथ संवरपदार्थव्याख्यानम् । [१४१ ] अनन्तरत्वात्पापस्यैव संवराख्यानमेतत् । मार्गो हि संवरस्तन्निमित्तमिन्द्रियाणि कषायाश्च संज्ञाश्च यावतांशेन यावन्तं वा कालं निगृह्यन्ते तावतांशेन तावन्तं वा कालं पापास्रवद्वारं पिधीयते । इन्द्रियकषायसंज्ञाः भावपापास्रवो द्रव्यपापासवहेतुः पूर्वमुक्तः । इह तन्निरोधो भावपापसंवरो द्रव्यपापसंवरहेतुरवधारणीय इति ॥
[१४२ ] सामान्यसंवरस्वरूपाख्यानमेतत् । यस्य रागरूपो द्वेषरूपो मोहरूपो वा समग्रपरद्रव्येषु न हि विद्यते भावः तस्य निर्विकारचैतन्यत्वात्समसुखदुःखस्य भिक्षोः शुभमशुभश्च कर्म नास्रवति ।
१ प्रशस्तरागः. २ उपरितनशुद्धवीतरागदशायां, वा उपरितनगुणस्थानेषु. ३ अप्राप्तस्थानस्याज्ञानिनः इत्यर्थः. ४ अयोग्यदेवादिपदार्थेषु रागनिषेधार्थ. ५ कदाचित्प्रशस्तरागो भवति. ६ उदन्या तृषा इत्यर्थः. ७ पीडितम्. ८ तृष्णादिविनाशकप्रतीकारः. ९ अनुकम्पा भवति. १० क्रोधमानमायालोभानाम्. ११ तस्य चित्तस्य. १२ प्रसन्नता निर्मलता. १३ तत् अकालुष्यम्. १४ अपरिपूर्ण१५ हिंसानन्दं, असत्यानन्दं, स्तेयानन्दं, विषयसंरक्षणानन्दं । इति चतुर्दा रौद्रं भवति. १६ प्रयोजनं विना. १७ शुभकर्म त्यक्त्वा अन्यत्र प्रयुक्तं ज्ञानमित्यर्थः. १८ आस्रवादनन्तरं. १९ इन्द्रियादीनां निरोधः.

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184