SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ रायचन्द्रजैनशास्त्रमालायाम् अयं हि स्थूललक्ष्यतया केवलभक्तिप्राधान्यस्य ज्ञानिनो भवति । उपरितनभूमिकायामलब्धास्पदस्यास्थानरागनिषेधार्थ तीव्ररागज्वरविनोदार्थ वा कदाचिज्ज्ञानिनोऽपि भवतीति ॥ .. [१३७] अनुकम्पास्वरूपाख्यानमेतत् । कश्चिदुदन्यादिदुःखप्लुतमवलोक्य करुणया तत्प्रतिचिकीर्षाकुलितचित्तत्वमज्ञानिनोऽनुकम्पा । ज्ञानिनस्त्वधस्तनभूमिकासु विहरमाणस्य जन्मार्णवनिममजगदवलोकनान्मनाग्मनःखेद इति ॥ [१३८] चित्तकलुषत्वस्वरूपाख्यानमेतत् । क्रोध-मान-मायालोभानां तीव्रोदये चित्तस्य क्षोभः कालुष्यम् । तेषामेव मन्दोदये तस्यै प्रेसादोऽकालुष्यम् । तत् कादाचित्कविशिष्टकषायक्षयोपशमे सत्यज्ञानिनोऽपि भवति । कषायोदयानुवृत्तेरसमग्रव्यावर्तितोपयोगस्यावान्तरभूमिकासु कदाचित् ज्ञानिनोऽपि भवतीति ॥ [ १३९ ] पापास्रवस्वरूपाख्यानमेतत् । प्रमादबहुलच-परिणतिः, कालुष्यपरिणतिः, विषयलौल्यपरिणतिः, परपरितापपरिणतिः, परापवादपरिणतिश्चेति पञ्चाशुभा भावा द्रव्यपापासवस्य निमित्तमात्रत्वेन कारणभूतत्वात्तदास्रवक्षणादूर्ध्व भावपापासवः । तन्निमित्तोऽशुभकर्मपरिणामो योगद्वारेण प्रविशतां पुद्गलानां द्रव्यपापास्रव इति ॥ [ १४० ] पापासवभूतभावप्रपञ्चाख्यानमेतत् । तीव्रमोहविपाकप्रभवा आहारभयमैथुनपरिग्रहसंज्ञास्तीवकषायोदयानुरञ्जितयोगप्रवृत्तिरूपाः कृष्णनीलकपोतलेश्यास्तिस्रः । रागद्वेषोदयप्रकर्षादिन्द्रियाधीनत्वरागद्वेषोद्रेकात्प्रियसंयोगाऽप्रियवियोगवेदनामोक्षणनिदानाकाङ्क्षणरूपमात । कषायक्रूराशयत्वाद्धिसोऽसत्यास्तेयविषयसंरक्षणानन्दरूपं रौद्रम् । नैष्कर्म्यन्तु शुभकर्मणश्चान्यत्र दुष्टतया प्रयुक्तं ज्ञानम् । सामान्येन दर्शनचारित्रमोहनीयोदयोपजनिताविवेकरूपो मोहः । एषः भावपापास्रवप्रपञ्चो द्रव्यपापास्रवप्रपञ्चप्रदो भवतीति ॥ इति आस्रवपदार्थव्याख्यानं समाप्तम् । अथ संवरपदार्थव्याख्यानम् । [१४१ ] अनन्तरत्वात्पापस्यैव संवराख्यानमेतत् । मार्गो हि संवरस्तन्निमित्तमिन्द्रियाणि कषायाश्च संज्ञाश्च यावतांशेन यावन्तं वा कालं निगृह्यन्ते तावतांशेन तावन्तं वा कालं पापास्रवद्वारं पिधीयते । इन्द्रियकषायसंज्ञाः भावपापास्रवो द्रव्यपापासवहेतुः पूर्वमुक्तः । इह तन्निरोधो भावपापसंवरो द्रव्यपापसंवरहेतुरवधारणीय इति ॥ [१४२ ] सामान्यसंवरस्वरूपाख्यानमेतत् । यस्य रागरूपो द्वेषरूपो मोहरूपो वा समग्रपरद्रव्येषु न हि विद्यते भावः तस्य निर्विकारचैतन्यत्वात्समसुखदुःखस्य भिक्षोः शुभमशुभश्च कर्म नास्रवति । १ प्रशस्तरागः. २ उपरितनशुद्धवीतरागदशायां, वा उपरितनगुणस्थानेषु. ३ अप्राप्तस्थानस्याज्ञानिनः इत्यर्थः. ४ अयोग्यदेवादिपदार्थेषु रागनिषेधार्थ. ५ कदाचित्प्रशस्तरागो भवति. ६ उदन्या तृषा इत्यर्थः. ७ पीडितम्. ८ तृष्णादिविनाशकप्रतीकारः. ९ अनुकम्पा भवति. १० क्रोधमानमायालोभानाम्. ११ तस्य चित्तस्य. १२ प्रसन्नता निर्मलता. १३ तत् अकालुष्यम्. १४ अपरिपूर्ण१५ हिंसानन्दं, असत्यानन्दं, स्तेयानन्दं, विषयसंरक्षणानन्दं । इति चतुर्दा रौद्रं भवति. १६ प्रयोजनं विना. १७ शुभकर्म त्यक्त्वा अन्यत्र प्रयुक्तं ज्ञानमित्यर्थः. १८ आस्रवादनन्तरं. १९ इन्द्रियादीनां निरोधः.
SR No.022407
Book TitlePanchastikay Samaysar
Original Sutra AuthorKundkundacharya
AuthorPannalal Bakliwal
PublisherParamshrut Prabhavak Mandal
Publication Year1905
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy