Book Title: Panchastikay Samaysar
Author(s): Kundkundacharya, Pannalal Bakliwal
Publisher: Paramshrut Prabhavak Mandal
View full book text
________________
३२
रायचन्द्रजैनशास्त्रमालायाम्
[ १४७ ] बन्धस्वरूपाख्यानमेतत् । यदि खल्वयमपरोपाश्रयेणानादिरक्तः कर्मोदयप्रभावत्वादुदीर्ण शुभमशुभं वा भावं करोति, तदा स आत्मा तेन निमित्तभूतेन भावेन पुद्गलकर्मणा विविधेन बद्धो भवति । तदत्र मोहरागद्वेषस्निग्धः शुभोऽशुभो वा परिणामो जीवस्य भावबन्धः । तन्निमित्तेन शुभाशुभकर्मत्वपरिणतानां जीवेन सहान्योन्यमूर्च्छनं पुद्गलानां द्रव्यबन्ध इति ॥
[ १४८] बहिरङ्गान्तरङ्गबन्धकारणाख्यानमेतत् । ग्रहणं हि कर्मपुद्गलानां जीवप्रदेशवर्तिकर्मस्कन्धानुप्रवेशः । तत् खलु योगनिमित्तं । योगो वामनः काय कर्म वर्गणालम्बनात्मप्रदेशपरिस्पन्दः । बन्धस्तु कर्मपुद्गलानां विशिष्टशक्तिपरिणामेनावस्थानम् । से पुनर्जीवभावनिमित्तः । जीवभावः पुनरतिरागद्वेषमोहयुतः । मोहनीयविपाकसंपादितविकार इत्यर्थः । तदत्र पुद्गलानां ग्रहणहेतुत्वाद्बहिरङ्गकारणं योगेः । विशिष्टशक्तिस्थितिहेतुत्वादन्तरङ्गकारणं जीवभाव एवेति ॥
[ १४९] मिथ्यात्वादिद्रव्यपर्य्यायाणामपि बहिरङ्गकारणद्योतनमेतत् । तैत्रान्तरे किलाष्टविकल्पकर्मकारणत्वेन बन्धहेतुभूताश्चतुर्विकल्पाः प्रोक्ताः मिथ्यात्वा संयम कषाययोगा इति । तेषामपि जीवभावभूता रागादयो बन्धहेतुत्वस्य हेतवः । यतो रागादिभावानामभावे द्रव्यमिध्यात्वा संयम कषाययोगसद्भावेऽपि जीवा न बध्यन्ते, ततो रागादीनामन्तरङ्गत्वान्निश्चयेन बन्धहेतुत्वमवैसेयमिति ॥
इति बन्धपदार्थव्याख्यानं समाप्तम् ।
अथ मोक्षपदार्थव्याख्यानम् ।
[ १५०-१५१ ] द्रव्यकर्ममोक्ष हेतुपरमसंवररूपेण भावमोक्षस्वरूपाख्यानमेतत् । आस्रवहेतुर्हिजीवस्य मोहरागद्वेषरूपो भावः । तदभावो भवति ज्ञानिनः । तदभावे भवत्यास्रवभावाभावः । आस्रवभावाभावे भवति कर्माभावः । कर्माभावेन भवति सार्वज्ञम् । सर्वदर्शित्वमव्याबाधमिन्द्रियव्यापारातीतमनन्तसुखत्वश्चेति । स एष जीवन्मुक्तिनामा भावमोक्षः कथमिति चेत् । भावः खल्वत्र विवक्षितः कर्मावृतचैतन्यस्य क्रमप्रवर्तमानज्ञप्तिक्रियारूपः । स खलु संसारिणोऽनादिमोहनीय कर्मोदयानुवृत्तिवशादशुद्धो द्रव्यकर्मास्रवहेतुः । स तु ज्ञानिनो मोहरागद्वेषानुवृत्तिरूपेण प्रहीयते । ततोऽस्य आस्रवभावो निरुध्यते । ततो निरुद्धास्रवभावस्यास्य मोहक्षयेणात्यन्तनिर्विकारमनादिमुद्रितानन्तचैतन्यवीर्यस्य शुद्धज्ञप्तिक्रियारूपेणान्तर्मूहूतमतिबाह्ययुगपज्ज्ञानदर्शनावरणान्तरायक्षयेण कथञ्चित् कूटस्थज्ञानतामवाप्य ज्ञप्तिक्रियारूपे क्रमप्रवृत्यभावाद् भावकर्म विनश्यति । ततः कर्माभावे स हि भगवान्सर्वज्ञः सर्वदर्शी व्युपरतेन्द्रियव्यापाराव्याबाधानन्तसुखश्च नित्यमेवावतिष्ठते । इत्येष भावकर्ममोक्षप्रकारः द्रव्यकर्ममोक्षहेतुः परमसंवरप्रकारश्च ॥
[ १५२ ] द्रव्यकर्ममोक्षहेतुपरमनिर्जराकारणध्यानाख्यानमेतत् । एवमस्य खलु भावमुक्तस्य भगवतः केवलिनः स्वरूपतृप्तत्वाद्विश्रान्तसुखदुःखकर्मविपाककृतविक्रियस्य प्रक्षीणावरणत्वादनन्तज्ञानदर्शन संपूर्णशुद्धज्ञानचेतनामयत्वादतीन्द्रियत्वाच्चान्यद्रव्यसंयोगवियुक्तं शुद्धस्वरूपे विचलितचैतन्यवृत्तिस्वरूपत्वात्कथञ्चिद्ध्यानव्यपदेशार्हमात्मनः स्वरूपं पूर्वसंचितकर्मणां शक्तिशातनं वा विलोक्य निर्जरा हेतुत्वेनोवर्ण्यत इति ॥
१ बन्धः २ योगात् प्रकृति प्रदेशबन्धौ . ३ अन्य सिद्धान्ते गोमठसारादिषु ४ मिथ्यात्वादीनां ५ हेतुत्वं ६ निश्चलज्ञानत्वम्. ७ केवलिनः. ८ रहित:--.
ज्ञातव्यम्.

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184