Book Title: Panchastikay Samaysar
Author(s): Kundkundacharya, Pannalal Bakliwal
Publisher: Paramshrut Prabhavak Mandal

View full book text
Previous | Next

Page 172
________________ रायचन्द्रजैनशास्त्रमालायाम् प्रतिपादितजीवगुणमार्गणास्थानादिप्रपञ्चितविचित्रविकल्परूपैः, निश्चयनयेन मोहरागद्वेषपरिणतिसम्पादितविश्वरूपत्वात्कदाचिदशुद्धैः कदाचित्तदभावाच्छुद्धैश्चैतन्यविवर्तग्रन्थिरूपैबहुभिः पर्यायैः जीवमधिगच्छेत् । अधिगम्य चैवमचैतन्यस्वभावत्वात् ज्ञानादर्थान्तरभूतैरितः प्रपञ्चमानैर्लिङ्गैर्जीवसंबद्धमसंबद्धं वा स्वतो भे. दबुद्धिप्रसिद्ध्यर्थमजीवमधिगच्छेदिति ।। इति जीवपदार्थव्याख्यानं समाप्तम् । अथाजीवपदार्थव्याख्यानम् । [१२४ ] आकाशादीनामेव जीवत्वे हेतूपन्यासोऽयम् । आकाशकालपुद्गलधर्माधर्मेषु चैतन्यविशेषरूपा जीवगुणा नो विद्यन्ते । आकाशादीनां तेषामचेतनत्वसामान्यत्वात् । अचेतनत्वसामान्यञ्चाकाशादीनामेव । चेतनता जीवस्यैव । चेतनत्वसामान्यादिति ॥ [१२५ ] आकाशादीनामचेतनत्वसामान्ये पुनरनुमानमेतत् । सुखदुःखज्ञानस्य हितपरिकर्मणोऽहितभीरुत्वस्य चेति, चैतन्यविशेषाणां नित्यमनुपलब्धेरविद्यमानचैतन्यसामान्या एवाकाशादयोऽजीवा इति ॥ [१२६-१२७ ] जीवपुद्गलयोः संयोगेऽपि भेदनिबन्धनस्वरूपाख्यानमेतत् । यत्खलु शरीरशैरीरिसंयोगेन स्पर्शरसगुणगन्धवर्णत्वाच्छब्दत्वात्संस्थानसङ्घातादिपर्यायपरिणतत्वाच्च, इन्द्रियग्रहणयोग्य तत्पुद्लद्रव्यम् । यत्पुनः स्पर्शरसगन्धवर्णगुणत्वादशब्दत्वानिर्दिष्टसंस्थानत्वाव्यक्तत्वादिपर्यायैः परिणतत्वाच्च नेन्द्रियग्रहणयोग्यम् , तच्चेतनागुणत्वात् रूपिभ्योऽरूपिभ्यश्चाजीवेभ्यो विशिष्टं जीवद्रव्यम् । एवमिह जीवाजीवयोयोर्वास्तवो भेदः सम्यग्ज्ञानानां मार्गप्रसिद्धयर्थे प्रतिपादित इति ॥ इति अजीवपदार्थव्याख्यानं पूर्णम् । [१२८] उक्तौ मूलपदार्थौ । अथ संयोगपरिणामनिवृत्तेतरसप्तपदार्थानामुपोद्धीतार्थ जीवपुद्गल. कर्मचक्रमनुवर्ण्यते ॥ [१२८-१२९-१३०] इह हि संसारिणो जीवादनादिबन्धनोपाधिवशेन स्निग्धः परिणामो भवति । परिणामात्पुनः पुद्गलपरिणामात्मकं कर्म । कर्मणो नारकादिगतिषु गतिः। गत्यधिगमनादेहः।देहादिन्द्रियाणि । इन्द्रियेभ्यो विषयग्रहणं । विषयग्रहणाद्रागद्वेषौ । रागद्वेषाभ्यां पुनः स्निग्धः परिणामः । परिणामात्पुनः पुद्गलपरिणामात्मकं कर्म । कर्मणः पुनर्नारकादिगतिषु गतिः । गत्यधिगमनात्पुनर्देहः । देहात्पुनरिन्द्रियाणि । इन्द्रियेभ्यः पुनर्विषयग्रहणं । विषयग्रहणात्पुनारागद्वेषौ । रागद्वेषाभ्यां पुनरपि स्निग्धः परिणामः । एवमिदमन्योन्यकार्यकारणभूतजीवपुद्गलपरिणामात्मकं कर्मजालं संसारचक्रजीवस्यानाद्यनिधनं सादिसनिधनं वा चक्रवत्परिवर्तते । तदत्र पुद्गलपरिणामनिमित्तो जीवपरिणामो जीवपरिणामनिमित्तः पुद्गलपरिणामश्च वक्ष्यमाणपदार्थबीजत्वेन संप्रधारणीय इति ॥ - १ तेषां रागद्वेषमोहादीनामभावात्. २ इतः परं कथ्यमानैः, ३ शीर्यतेऽनेनात्मा तत् शरीरम् । शरीरसंयोगे संति समचतुरस्रादिषु स्थानपर्य्यायपरिणतत्वात्. . ४ वज्रऋषभसंहननादिपर्य्यायपरिणतं तदपि पुद्गलमेव । अतएव इन्द्रियपरिणतं तदपि पुद्गलमेव । अतएव इन्द्रियग्रहणयोग्यम्. . ५ आकाररहितत्वात्, अतएव आत्मनि आकारो वयेते. ६ ज्ञानस्य अगुरुलघुकैः पर्यायैः परिणतखात्.. ७ पुद्गलेभ्यः. ८ धर्मादिभ्यः. ९ वस्तुसंबन्धी भेदः. १० उदाहरणार्थम्.

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184