Book Title: Panchastikay Samaysar
Author(s): Kundkundacharya, Pannalal Bakliwal
Publisher: Paramshrut Prabhavak Mandal

View full book text
Previous | Next

Page 171
________________ २७ पञ्चास्तिकायसमयसारस्य टीका। [११८ ] इन्द्रियभेदेनोक्तानां जीवानां चतुर्गतिसंबन्धत्वेनोपसंहारोऽयम् । देवगतिनानो देवायुषश्चोदयाद्देवास्ते च भवनवासिव्यन्तरज्योतिष्कवैमानिकनिकायभेदाच्चतुर्धा । मनुष्यगतिनानो, मनुप्यायुषश्च उदयान्मनुष्याः । ते कर्मभोगभूमिजभेदात् द्विविधाः । तिर्यग्गतिनाम्नस्तिर्यगायुषश्च उदयात्तिय॑श्चस्ते पृथिवीशम्बूकयूकोइंशजलचरोरगपक्षिपरिसर्पचतुष्पदादिभेदादनेकधा । नरकगतिनामो, नरकायुषश्च उदयान्नारकाः । ते रत्नशर्करावालुकापङ्कधूमतमोमहातमःप्रभाभूमिजभेदात्सप्तधा । तंत्र देवमनुष्यनारकाः पञ्चेन्द्रिया एव । तिर्यश्चस्तु केचन पञ्चेन्द्रियाः, केचिद्देवमनुष्यनारकाः पञ्चेन्द्रिया एव । तिर्यश्चस्तु केचित्पञ्चेन्द्रियाः । केचिदेक-द्वि-त्रि-चतुरिन्द्रिया अपीति ॥ [११९] गत्यायुन्नामोदयनिवृत्तत्वाद्देवत्वादीनामनात्मस्वभावत्वोद्योतनमेतत् । क्षीयते हि क्रमेणारब्धफलो गतिनामविशेषायुर्विशेषश्च जीवानाम् । एवमपि तेषां गत्यन्तरस्यायुरन्तरस्य च कषायानुरञ्जिता योगप्रवृत्तिलेश्या भवति बीजं ततस्तदुचिंतमेव । गत्यन्तरमायुरन्तरश्च ते प्राप्नुवन्ति । एवं क्षीणाक्षीणाभ्यामपि पुनः पुनर्नवीभूताभ्यां गतिनामायुःकर्मभ्यामनात्मस्वभावभूताभ्यामपि चिरमनुगम्यमानाः संसरन्त्यात्मानमचेतयमाना जीवा इति ॥ [१२० ] उक्तजीवप्रपञ्चोपसंहारोऽयम् । एते ह्युक्तप्रकाराः सर्वे संसारिणो देहप्रवीचारा अदेहप्रवीचारा भगवन्तः सिद्धाः शुद्धा जीवाः । तत्र देहप्रवीचारत्वादेकप्रकारत्वेऽपि संसारिणो द्विप्रकाराः । भव्या अभव्याश्च । ते शुद्धस्वरूपोपलम्भशक्तिसद्भावासद्भावाभ्यां पाच्याऽपाच्यमुद्वदभिधीयन्त इति ॥ [१२१ ] व्यवहारजीवत्वैकान्तप्रतिपत्तिनिरासोऽयम् । य इमे एकेन्द्रियादयः पृथिवीकायिकादयश्चानादिजीवपुद्गलपरस्परावगाहमवलोक्य, व्यवहारनयेन जीवप्राधान्याज्जीवा इति प्रज्ञाप्यन्ते । निश्चयनयेन तेषु स्पर्शनादीन्द्रियाणि, पृथिव्यादयश्च कायाः जीवलक्षणभूतचैतन्यस्वभावाभावान्न जीवा भवन्तीति । तेष्ववपत्स्वपरपरिच्छित्तिरूपेण प्रकाशमानं ज्ञानं तदेव गुणगुणिनोः कथञ्चिदभेदाज्जीवत्वेन प्ररूप्यत इति ॥ [ १२२] अन्यासाधरणजीवकार्यख्यापनमेतत् । चैतन्यस्वभावत्वात्कर्तृस्थायाः क्रियायाः ज्ञप्तेदृशेश्च जीव एव कर्त्ता न तत्संबन्धः पुद्गलो यथाकाशादि । सुखाभिलाषक्रियायाः दुःखोद्वेगक्रियायाः स्वसंवेदितहिताहितनिर्वर्तनक्रियायाश्च चैतन्यविवर्तनरूपेसङ्कल्पप्रभवत्वात्स एव कर्ता नान्यः । शुभाशुभकर्मफलभूताया इष्टानिष्टविषयोपभोगक्रियायाश्च सुखदुःखस्वरूपस्वपरिणामक्रियाया इव स एव कर्ता नान्यः । एतेनासाधारणकार्यानुमेयत्वं पुद्गलव्यतिरिक्तस्यात्मनो द्योतितमिति ॥ [१२३ ] जीवाजीवव्याख्योपसंहारोपक्षेपसूचनेयम् । एवमनया दिशा व्यवहारनयेन कर्मग्रन्थ १ अणिमादिगुणैर्दीव्यन्ति क्रीडन्तीति देवाः. २ मनसा निपुणा मनसा उत्कृष्टा वा मनुष्या मनुष्या वा. ३ तिरोऽश्चतीति तिर्य। तिरस् शब्दस्य वक्रवाचिनः ग्रहणात् . ४ नरान् प्राणिनः कायति कदर्थयतीति नरकं कर्म तदुदयात् जाताः नारकाः । अथवा नरान् अज्ञानिनः कायति घातयति खण्डीकरोतीति नरकं कर्म तदुदयाज्जाता नारकाः. ५ चतुर्गत्यादिभेदेषु. ६ अविद्यमानात् आयुषः अन्यत् इति आयुरन्तरं तस्य. ७ कर्मभिः आत्मानं लिम्पतीति लेश्या आत्मप्रवृत्तिलेश्या कषायोदयानुरञ्जिता योगप्रवृत्तिर्लेश्या इति. ८ कारणं. ९ तेषां जीवानां लेश्याया वा उचितं योग्यम् . १० प्राप्यमाणाः. ११ संसारिजीवेषु. १२ इन्द्रियकायेषु. १३ कथंभूतायाः क्रियायाः कर्तृस्थायाः । कर्तरि तिष्ठति इति कर्तृस्था, तस्याः कर्तृस्थायाः. १४ अनादिकर्मबन्धत्वात् तत्संबन्धः जीवसंबन्धः पुद्गलः कथ्यते । स पुद्गलो ज्ञप्तिक्रियायाश्च कर्ता दृशिक्रियायाश्च नेति तात्पर्यम्. १५ पर्यायरूपः. १६ जीवः. १७ ज्ञप्तेर्टशेश्च क्रियायाः कर्ता न स्यादित्यनेन. १८ गोमठसारादिकर्मग्रन्थाः संप्रति विद्यन्त एव । वा अन्या अपि कर्मपद्धतयः सन्त्येव तैः प्रतिपादितः.

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184