Book Title: Panchastikay Samaysar
Author(s): Kundkundacharya, Pannalal Bakliwal
Publisher: Paramshrut Prabhavak Mandal

View full book text
Previous | Next

Page 162
________________ १८ रायचन्द्रजैनशास्त्रमालायाम् माना निश्चयेन सुखदुःखरूपात्मपरिणामानां व्यवहारेणेष्टानिष्टविषयाणां निमित्तमात्रत्वात्पुद्गलकायाः सुखदुःखरूपं फलं प्रयच्छन्ति । जीवाश्च निश्चयेन निमित्तमात्रभूतद्रव्य कर्मनिर्वर्तितसुखदुःखस्वरूपात्मपरिणामानां व्यवहारेण द्रव्यकर्मोदयापादितेष्टानिष्टविषयाणां भोक्तृत्वात्तथाविधं फलं भुञ्जते इति एतेन जीवस्य भोक्तृत्वगुणोऽपि व्याख्यातः ॥ [ ६८ ] कर्तृत्वभोक्तृत्वव्याख्योपसंहारोऽयम् । तत एतत् स्थितं निश्चयेनात्मनः कर्म कर्तृ, व्यवहारेण जीवभावस्य । जीवोऽपि निश्चयेनात्मभावस्य कर्ता व्यवहारेण कर्मण इति । यथात्रोभयनयाभ्यां कर्म कर्तृ, तथैकेनापि नयेन न भोक्तृ । कुतः चैतन्यपूर्वकानुभूतिसद्भावाभावात् । ततश्चेतनत्वात्केवल एव जीवः कर्मफलभूतानां कथंचिदात्मनः सुखदुःखपरिणामानां कथंचिदिष्टानिष्टविषयाणां भोक्ता प्रसिद्ध इति ॥ [ ६९ ] कर्मसंयुक्तत्वमुखेन प्रभुत्वगुणव्याख्यानमेतत् । एवमयमात्मा प्रकटितप्रभुत्वशक्तिः स्वकैः कर्मभिर्गृहीतकर्तृत्वभोक्तृत्वाधिकारोऽनादिमोहावच्छिन्नत्वादुपजातविपरीताभिनिवेशः प्रत्यस्तमितसम्यग्ज्ञानज्योतिः सान्तमनन्तं वा संसारं परिभ्रमतीति ॥ [ ७० ] कर्मवियुक्तत्वमुखेन प्रभुत्वगुणव्याख्यानमेतत् । अयमेवात्मा यदि जिनाज्ञया मार्गमुपगम्योपशान्तक्षीण मोहत्वात्प्रहीणविपरीताभिनिवेशः समुद्भिन्नसम्यग्ज्ञानज्योतिः कर्तृत्वभोक्तृत्वाधिकारं परिसमाप्य सम्यक्प्रकटितप्रभुत्वशक्तिर्ज्ञानस्यैवानुमार्गेण चरति, तदा विशुद्धात्मतत्वोपलम्भनरूपमपवर्गनगरं विगाहत इति ॥ अथ जीवविकल्पा उच्यन्ते । [ ७१-७२ ] स खलु जीवो महात्मा नित्यचैतन्योपयुक्तत्वादेक एव । ज्ञानदर्शनभेदाद्विविकल्पः । कर्मफलकार्यज्ञानचेतनाभेदेन लक्ष्यमाणत्वात्रिलक्षणः । श्रौव्योत्पादविनाशभेदेन वा चतसृषु गतिषु चंक्रमणत्वाच्चतुश्चङ्क्रमणः। पञ्चभिः पारिणामिकौदयिकादिभिरग्रगुणैः प्रधानत्वात् पञ्चाप्रगुणप्रधानः । चतसृषु दिक्षुर्ध्वमधश्चेति भवान्तरसंक्रमणषट्टेनापक्रमेण युक्तत्वात् षट्रापक्रमयुक्तः । अस्तिनास्त्यादिभिः सप्तभङ्गैः सद्भावो यस्येति सप्तभङ्गसद्भावः । अष्टानां कर्मणां गुणानां वा आश्रयत्वादष्टाश्रयः । नवपदार्थरूपेण वर्तनान्नवार्थः । पृथिव्यप्तेजोवायुवनस्पतिसाधारणप्रत्येकद्वित्रिचतुःपञ्चेन्द्रियरूपेषु दशसु स्थानेषु गतत्वाद्दशस्थानग इति ॥ [ ७३ ] बद्धजीवस्य षङ्गतयः कर्मनिमित्ताः । मुक्तस्याप्यूर्ध्वगतिरेका स्वाभाविकी त्यत्रोक्तम् । इति जीवद्रव्यास्तिकायव्याख्यानं समाप्तम् । अथ पुद्गलद्रव्यास्तिकायव्याख्यानम् । [ ७४ ] पुद्गलद्रव्यविकल्पादेशोऽयम् । पुद्गलद्रव्याणि हि कदाचित् स्कन्धपर्यायेण, कदाचित् स्कन्धदेशपर्य्यायेण, कदाचित् स्कन्धप्रदेशपर्य्यायेण, कदाचित् परमाणुत्वेनात्रै तिष्ठन्ति । नान्यागतिरस्ति । इति तेषां चतुर्विकल्पत्वमिति ॥ [ ७५ ] पुद्गलद्रव्यविकल्पनिर्देशोऽयम् । अनन्तानन्तपरमाण्वारब्धोऽप्येकः स्कन्धनाम पर्य्यायः । तदर्धं स्कन्धदेशो नाम पर्य्यायः । तदर्द्धार्थ स्कन्धप्रदेशो नाम पर्य्यायः । तदर्धे स्कन्धदेशो नाम पर्य्यायः । १ स्वकीयस्य २ निराकृत्य. ३ लोके.

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184