Book Title: Panchastikay Samaysar
Author(s): Kundkundacharya, Pannalal Bakliwal
Publisher: Paramshrut Prabhavak Mandal

View full book text
Previous | Next

Page 166
________________ रायचन्द्रजैनशास्त्रमालायाम् अथाकाशद्रव्यास्तिकायव्याख्यानम् - [ ९० ] आकाशस्वरूपाख्यानमेतत् । षड्द्रव्यात्मके लोके सर्वेषां शेषद्रव्याणां यत्समस्तावकाश मित्तं विशुद्धक्षेत्ररूपं तदाकाशमिति ॥ २२ [ ९१] लोकाद्बहिराकाशसूचनेयं । जीवादीनि शेषद्रव्याण्यवधृतपरिमाणत्वाल्लोकादनन्यान्येव । आकाशं त्वनन्तत्वाल्लोकादनन्यदन्यचेति ॥ [९२] आकाशस्यावकाशैकहेतोर्गतिस्थितिहेतुत्वशङ्कायां दोषोपन्यासोऽयम् । यदि खल्वाकाशमवगाहिनामवगाहहेतुर्गतिस्थितिमतां गतिस्थितिहेतुरपि स्यात्, तदा सर्वोत्कृष्टस्वाभाविकोर्ध्वगातिपरिणता भगवन्तः सिद्धा बहिरङ्गान्तरङ्गसाधनसामग्र्यां सत्यामपि कुतस्तत्राकाशे तिष्ठन्त इति ॥ [ ९३] स्थितिपक्षोपन्यासोऽयम् । यतो गत्वा भगवन्तः सिद्धाः लोकोपर्यवतिष्ठन्ते, ततो गति - स्थितिहेतुत्वमाकाशे नास्तीति निश्चेतव्यम् । लोकालोकावच्छेदकौ धर्माधर्मावेव गतिस्थितिहेतू मन्तव्याविति ॥ [ ९४] आकाशस्य गतिस्थितिहेतुत्वाभावे हेतूपन्यासोऽयम् । नाकाशं गतिस्थितिहेतु लोकालोकसीमव्यवस्थायास्तथोपपत्तेः । यदि गतिस्थित्योराकाशमेव निमित्तमिष्येत्, तदा तस्यै सर्वत्र सद्भावाज्जीअपुद्गलानां गतिस्थित्योर्निःसीमत्वात्प्रतिक्षणमलोको हीयते । पूर्व पूर्व व्यवस्थाप्यमानश्चान्तो लोकस्यो - तरोत्तरपरिवृद्ध्या विघटते । ततो न तत्र तद्धेतुरिति ॥ [ ९५] आकाशस्य गतिस्थितिहेतुत्व निरासव्याख्योपसंहारोऽयम् । धर्माधर्मावेव गतिस्थितिकारणेनाकाशमिति ॥ [ ९६] धर्माधर्माऽलोकाकाशानामवगाहवशादेकत्वेऽपि वस्तुत्वेनान्यत्वमत्रोक्तम् । धर्माधर्मालोकाकाशानि हि समानपरिमाणत्वात्सहावस्थानमात्रेणैवैकत्वभाञ्जि । वस्तुतस्तु व्यवहारेण गति - स्थित्यवगाहहेतुत्वरूपेण निश्चयेन विभक्तप्रदेशत्वरूपेण विशेषेण पृथगुपलभ्यमानेनान्यत्वभाञ्जयेव भवन्तीति ॥ इत्याकाशद्रव्यास्तिकायव्याख्यानम् । अथ चूलिका । 1 [ ९७] अत्र द्रव्याणां मूर्तीमूर्तत्वं चेतनाचेतनत्वं चोक्तम् । स्पर्शरसगन्धवर्णसद्भावस्वभावं मूर्त । स्पर्शरसगन्धवर्णाऽभावस्वभावममूर्त, चैतन्यसद्भावस्वभावं चेतनं । चैतन्याभावस्वभावमचेतनं । तत्रामूर्तमाकाशं, अमूर्तः कालः, अमूर्तः स्वरूपेण जीवः, पररूपावेशान्मूर्तोऽपि अमूर्तो धर्मः, अमूर्तोऽधर्मः, मूर्तः पुद्गल एवैक इति । अचेतनमाकाश, अचेतनः कालः, अचेतनो धर्मः, अचेतनोऽधर्मः, अचेतनः पुद्गलः, चेतनो जीव एवैक इति ॥ [ ९८ ] अत्र सक्रियत्वनिष्क्रियत्वमुक्तम् । प्रदेशान्तरप्राप्तिहेतुः परिस्पन्दनरूपपर्य्यायः क्रिया । तत्र सक्रिया बहिरङ्गसाधनेन सहभूताः जीवाः । सक्रिया बहिरङ्गसाधनेन सहभूताः पुद्गलाः । निष्क्रियमाकाशं, निष्क्रियो धर्मः, निष्क्रियोऽधर्मः, निष्क्रियः कालः । जीवानां सक्रियत्वस्य बहिरङ्गसाधनं १ पञ्चद्रव्याणाम् . २ जीवपुद्गलानाम् ३ आकाशस्य ४ लोकस्यान्तो. ५ आकाशे. ६ गमनस्थित्योः ७ स्वभावेन. ८] कर्मनो कर्मसंयोगात्. कारणं न.

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184