Book Title: Panchastikay Samaysar
Author(s): Kundkundacharya, Pannalal Bakliwal
Publisher: Paramshrut Prabhavak Mandal

View full book text
Previous | Next

Page 168
________________ २४ रायचन्द्र जैनशास्त्रमालायाम् I [ १०२ ] कालस्य देव्यास्तिकायत्वविधिप्रतिषेधविधानमेतत् । यथा खलु जीवपुद्गलधर्माधर्माकाशानि सकलद्रव्यलक्षणसद्भावाद्द्रव्यव्यपदेशभाञ्जि भवन्ति, तथा कालोऽपि । इत्येवं षड्द्रव्याणि । किंतु यथा जीवपुद्गलधर्माधर्माकाशानां द्वयादिप्रदेशलक्षणत्वमस्ति अस्तिकायत्वं । न तथा लोकाकाशप्रदेशसंख्यानामपि कालाणूनामेकप्रदेशत्वादस्त्यस्तिकायत्वम् । अत एव च पञ्चास्तिकायप्रकरणे न हीह मुख्यत्वेनोपन्यस्तः कालः । जीवपुद्गलपरिणामावच्छिद्यमानपर्य्यायत्वेन तत्परिणामान्यथानुपपत्त्या - ऽनुमीयमानद्रव्यत्वेनात्रैवैान्तर्भावितः ॥ इति कालद्रव्यव्याख्यानं समाप्तम् । [ १०३ ] तदवबोधफलपुरस्सरः पञ्चास्तिकायव्याख्योपसंहारोऽयम् । न खलु कालकलितपश्चास्तिकायेभ्योऽन्यत् किमपि सकलेनाऽपि प्रवचनेन प्रतिपाद्यते । ततः प्रवचनसार एवायं पञ्चास्तिकायसंग्रहः। यो हि नामॊऽमुं समस्तवस्तुतत्वाभिधायिनमर्थतोऽर्थितयाऽवबुध्यात्रैव जीवास्तिकायान्तर्गतमात्मानं स्वरूपेणात्यन्तविशुद्धचैतन्यस्वभावं निश्चित्य परस्पर कार्यकारणीभूतानादिरागद्वेषपरिणामकर्म - न्धसंततिसमारोपितस्वरूपविकारं तदात्वेऽनुभूयमानमवलोक्य तत्कालोन्मीलितविवेकज्योतिः कर्मबन्धसंततिप्रवर्तिकां रागद्वेषपरिणतिमत्यस्यति स खलु जीर्यमाणस्नेहो जघन्यस्नेहगुणाभिमुखपरमाणुवद्भाविबन्धपराङ्मुखः पूर्वबन्धात्प्रच्यवमानः शिखितप्तोदे के दौस्थ्यानुकारिणो दुःखस्य परिमोक्षं विगाहत इति ॥ [ १०४ ] दुःखविमोक्षकरणक्रमाख्यानमेतत् । एतस्य शास्त्रस्यार्थभूतं शुद्धचैतन्यस्वभावमात्मानं कश्चिज्जीवस्तावज्जानीते । ततस्तमेवानुगन्तुमुद्यमते । ततोऽस्य क्षीयते 'हेष्टिमोहः । ततः स्वरूपपरिचयादुन्मज्जॆति ज्ञानज्योतिः । ततो रागद्वेषौ प्रशाम्यतः । ततः उत्तरः पूर्वश्च बन्धो विनश्यति । ततः पुनर्बन्धहेतुत्वाभावात् स्वरूपस्थो नित्यं प्रतपतीति ॥ इति समयव्याख्यायामन्तर्नीतषद्रव्यपञ्चास्तिकायवर्णनात्मकः प्रथमः श्रुतस्कन्धः समाप्तः । द्रव्यस्वरूपप्रतिपादनेन शुद्धं बुधानामि तत्त्वमुक्तम् । पदार्थभङ्गेन कृतावतारं प्रकीर्त्यते संप्रति वर्त्म तस्य ॥ १ ॥ [ १०५] आप्तस्तुतिपुरस्सरा प्रतिज्ञेयम् । अमुना हि प्रवर्तमानमहाधर्मतीर्थस्य मूलकर्तृत्वेनाऽपुनर्भवकारणस्य भगवतः परमभट्टारक महादेवाधिदेव श्रीवर्द्धमान स्वामिन: सिद्धिनिबन्धनभूतां तां भावस्तुतिमासूत्र्य, कालकलितपञ्चास्तिकायानां पदार्थविकल्पे मोक्षस्य मार्गश्च वक्तव्यत्वेन प्रतिज्ञात इति ॥ १ कालस्य द्रव्यत्वविधिविधानं दर्शितं । पुनः अस्तिकायत्वप्रतिषेधविधानं दर्शितञ्चात्र सूत्रैः २ पञ्चास्तिका - यमध्ये कालान्तरभावः ३ सिद्धान्तेन. ४ कथ्यते ५ पञ्चास्तिकाय संग्रहम्. ६ परमार्थतः. ७ कार्यतया ८ वर्तमानकाले. ९ त्यजति १० पूर्वोक्तः जीवः. ११ जीर्यमाणस्नेहो मोहः यस्य एवंभूतः सन्. १२ यथा जघन्यस्नेहजघन्यसचिक्कणगुणेन अभिमुखसहितपरमाणुर्न बध्यते पूर्वबन्धात्प्रच्यवते च जघन्यसचिक्कणत्वात् । स्नेहस्य जघन्यांशत्वादित्यर्थः १३ अग्नितप्तोदकं दौस्थ्यं जाज्वल्यमानं तप्तभावं अनुकारि सदृशं जायते तत्सदृशस्य दुःखस्याभावं लभते । तद्यथा जलस्य शीतलखभावोऽस्ति परन्तु अग्निसंयोगात्तप्तरूपं विकारभावं प्राप्नोति । पुनः कर्मबन्धवत् यदाऽग्निसंयोगो विघटते तदा शुद्धस्वभावं स्वस्य शीतलखभावं लभते एव । तथा हि- यदा कर्मबन्धरहितः स आत्मा भवति तदा दु:खस्य अभावं लभते. १४ दर्शनमोहः १५ प्रकटीभवति प्रकाशते. १६ पञ्चास्तिकायव्याख्यायाम् . १७ पदार्थविकल्पनेन भेदेन वा विवरणेन. १८ शुद्धात्मतत्त्वस्य. १९ सूत्रेण.

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184