Book Title: Padmanandi Panchvinshti
Author(s): Balchandra Siddhantshastri
Publisher: Jain Sanskruti Samrakshak Sangh

View full book text
Previous | Next

Page 320
________________ २४६ पद्मनन्दि-पञ्चविंशतिः [869:२१-४869 ) नामापि देव भवतः स्मृतिगोचरत्वं वाग्गोचरत्वमथ येन सुभक्तिभाजा। नीतं लभेत स नरो निखिलार्थसिद्धि साध्वी स्तुतिर्भवतु मां 'किल कात्र चिन्ता ॥४॥ 870 ) एतावतैव मम पूर्यत एव देव सेवां करोमि भवतश्चरणद्वयस्य । अत्रैव जन्मनि परत्र च सर्वकालं न त्वामितः परमहं जिन याचयामि ॥ ५॥ 871) सर्वांगमावगमतः खलु तत्त्वबोधो मोक्षाय वृत्तमपि संप्रति दुर्घटं नः । जाड्यात्तथा कुतनुतस्त्वयि भक्तिरेव देवास्ति सैव भवतु कमतस्तदर्थम् ॥ ६॥ 872 ) हरति हरतु वृद्धं वार्धकं कायकान्ति दधति दधतु दूरं मन्दतामिन्द्रियाणि । भवति भवतु दुःखं जायतां वा विनाशः परमिह जिननाथे भक्तिरेका ममास्तु ॥७॥ 873 ) अस्तु त्रयं मम सुदर्शनयोधवृत्तसंवन्धि यान्तु च समस्तदुरीहितानि । याचे न किंचिदपरं भगवन् भवन्तं नाप्राप्तमस्ति किमपीह यतस्त्रिलोक्याम् ॥ ८॥ यत् यस्मात्कारणात् । तत् स्तोत्रम् । चित्तमध्यगतभक्तिनिवेदनाय मनोगतभक्तिप्रकटनाय ॥ ३ ॥ भो देव । येन पुंसा नरेण । भवतः तव । नामापि स्मृतिगोचरत्वं स्मरणगोचरत्वम् । अथ वाग्गोचरत्वं नीतं कृतम् । किंलक्षणेन नरेण । सुभक्तिभाजा भक्तियुक्तेन । स नरः। निखिल-अर्थसिद्धिम् । लभेत प्राप्नुयात् । किल इति सत्ये । साध्वी स्तुतिर्भवतु । अत्र त्वयि विषये। मां को चिन्ता। न कापि ॥४॥ भो देव । अत्रैव जन्मनि। च पुनः । परत्र जन्मनि । सर्वकालम् । भवतः तव । चरणद्वयस्य सेवा करोमि । एतावता सेवामात्रेण । मम पूर्यते एव । भो जिन । अहं त्वां याचयामि । वा । इतः हेतोः । अपरं न याचयामि ॥ ५ ॥ भो देव । खलु निश्चितम् । तत्त्वबोधः मोक्षाय । कस्मात् । सर्व-आगम-अवगमतः सर्व-आगम-द्वादशाङ्गम् अवलोकात् । तत् ज्ञानम् । वृत्तं चारित्रम् । अपि । नः अस्माकम् । संप्रति इदानीम् । दुर्घटम् । कस्मात् जाड्यात् मूखत्वात् । तथा कुतनुतः निन्द्यशरीरात् । त्वयि विषये भक्तिरेव अस्ति । सैव भक्तिः । क्रमतः तदर्थ मोक्षार्थ भवतु ॥ ६ ॥ वृद्धं वृद्धपदम् । वार्धक कायकान्ति हरति तर्हि हरतु। इन्द्रियाणि दूरम् अतिशयेन मन्दता दधति चेत् दधतु । चेत् दुःखं भवति तदा दुःखं भवतु । वा विनाशश्च जायताम् । इह लोके । मम जिननाथे परम् एका भक्तिरस्तु भवतु ॥७॥ भो भगवन् । मम सुदर्शनबोधवृत्तसंबन्धि त्रयम् अस्तु। च पुनः । समस्तदुरीहितानि यान्तुं । अपरं किंचित् न याचे भवन्तम् अपरं न प्रार्थयामि । यतः यस्मात्कारणात् । इह त्रिलोक्या हे देव! जो मनुष्य अतिशय भक्तिसे युक्त होकर आपके नामको भी स्मृतिका विषय अथवा वचनका विषय करता है - मनसे आपके नामका चिन्तन तथा वचनसे केवल उसका उच्चारण ही करता है - उसके सभी प्रकारके प्रयोजन सिद्ध होते हैं । ऐसी अवस्थामें मुझे क्या चिन्ता है ? अर्थात् कुछ भी नहीं । वह उत्तम स्तुति ही प्रयोजनको सिद्ध करनेवाली होवे ॥ ४ ॥ हे देव ! मैं इस जन्ममें तथा दूसरे जन्ममें भी निरन्तर आपके चरणयुगलकी सेवा करता हूं, इतने मात्रसे ही मेरा प्रयोजन पूर्ण हो जाता है । हे जिनेन्द्र ! इससे अधिक मैं आपसे और कुछ नहीं मागता हूं ।। ५ । हे देव! मुक्तिका कारणीभूत जो तत्वज्ञान है वह निश्चयतः समस्त आगमके जान लेनेपर प्राप्त होता है, सो वह जडबुद्धि होनेसे हमारे लिये दुर्लभ ही है। इसी प्रकार उस मोक्षका कारणीभूत जो चारित्र है वह भी शरीरकी दुर्बलतासे इस समय हमें नहीं प्राप्त हो सकता है । इस कारण आपके विषयमें जो मेरी भक्ति है वही क्रमसे मुझे मुक्तिका कारण होवे ॥ ६ ॥ वृद्धिको प्राप्त हुआ बुढ़ापा यदि शरीरकी कान्तिको नष्ट करता है तो करे, यदि इन्द्रियां अत्यन्त शिथिलताको धारण करती हैं तो करें, यदि दुःख होता है तो होवे, तथा यदि विनाश होता है तो वह भी भले होवे । परन्तु यहां मेरी एक मात्र जिनेन्द्रके विषयमें भक्ति बनी रहे ॥ ७ ॥ हे भगवन् ! मुझे सम्यग्दर्शन, सम्यग्ज्ञान और सम्यक्चारित्र सम्बन्धी तीन अर्थात् रत्नत्रय प्राप्त होवे तथा मेरी समस्त दुश्चेष्टायें नष्ट हो जावें, १ अश मा। २ श विषये मा भवतु का। ३ अ श पूर्यताम् । ४ अक सर्वआगमअवगमतः सर्वावलोकनात्। ५ क विषये एव भक्तिरस्ति । ६क विनाशः। ७श हितानि नाशं यान्तु ।

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359