Book Title: Nyayamanjari Part 02
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

Previous | Next

Page 13
________________ ( ८ ) एवमन्तःकरणमपि एव साङ्ख्योक्तत्रैविध्यं चायुक्तमेवेति श्रीजयन्तः। वेदान्तिनस्तु अन्तःकरणस्यैकत्वेऽपि वृत्तिभेदाच्चातुर्विध्यमुपचरन्ति । तदुक्तम्, मनोबुद्धिरहङ्कारश्चित्तं करणमान्तरम् । संशयो निश्चयो गर्वः स्मरणं विषया अमी इत्यभियुक्तोक्तेरित्याहुः । असत्कार्यवादसमर्थनम् असत्कार्यवादं दूषयन्तः साङ्ख्या वेदान्तिनश्चाहुः असन् घटश्चेदुत्पद्येत, असत् शशविषाणं कुतो नोत्पद्येत । यदि घटस्यैव शक्तिविशेषो मृदि वर्तते, न शशविषाणस्येत्युच्यते, तर्हि सा शक्तिः घटसूक्ष्मावस्थैवेति पर्यायेण सत्कार्यवादापत्तिरिति । भट्टजयन्तस्तु सम्यगेवेदं दूषणं परिहरति । आह च सा शक्तिर्योग्यत्वावच्छिन्नस्वरूपसहकारिसन्निधानमेव । सा च अवस्थिता आगन्तुका च । सत्त्वाद्यवच्छिन्नं स्वरूपमवस्थिता शक्ति:, आगन्तुका च दण्डचक्रादिरूपा । उभयोरपि घटे कारणत्वमुपेयते । योग्यता च नार्थान्तरमपि तु वस्तुविशेष एव इति सन्नियमादुपादाननियम इति । न च शक्तिः कार्यमेवेति वाच्यम्, तथा सति कार्यात् कार्योत्पत्तिरित्यसङ्गतमापद्येत । न च घटाद् घटोत्पत्तिरिति । शाब्दबोधविषये नैयायिका मीमांसकाश्च विप्रतिपद्यन्ते । न्यायविदः पदज्ञानं करणं वृत्तिज्ञानसहकृतपदज्ञानजन्यपदार्थोपस्थितिर्व्यापारः शाब्दबोधः फलमित्यूचुः । पदजन्योपस्थितिः संसर्गांशे नापेक्ष्यते, यथा घटमानयेत्यादौ घटपदार्थस्य घटस्य अम्पदार्थे कर्मत्वे योऽन्वयः संबन्ध आधेयत्वरूपस्तत्र पदजन्यपदार्थोपस्थितिर्नापेक्ष्यते, समभिव्याहारेणैव संसर्गलाभसम्भवात् । तच्छक्तपदज्ञानजन्यतदुपस्थित्युत्तरशाब्दबोधे तादृशोपस्थितेर्हेतुत्वात् संसर्गस्य समभिव्याहारेणैव भानमिच्छन्ति, उपस्थितिकारणत्वे व्यभिचाराभावात् । एतत्तु प्राभाकरा न रोचयन्ते । संसर्गस्य विना पदजन्योपस्थितिभाने शाब्दबुद्धौ गगनादेरपि भानापत्तेः । अतोऽन्विते शक्तिरङ्गीकार्या । कार्यान्विते इति तु न तात्पर्येण, कार्यस्य कार्यान्वयाभावात् । अन्वयस्तु घटपदेन अम्पदेन चोपस्थितत्वात् तद्भाने न व्यभिचार इत्याहुः ।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 384