Book Title: Nyayamanjari Part 02
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

Previous | Next

Page 16
________________ ( ११ ) अभेदान्वयस्याव्युत्पन्नत्वात् । एकत्र विशेषणतयोपस्थितस्यान्यत्र विशेषणत्वायोगादित्याक्षिपन्ति । नैयायिकाग्रेसराः श्रीगदाधरभट्टाचार्यास्तु समभिव्याहृतपदोपस्थापितकामनाविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नसाधनत्वमेव लिङर्थः । इष्टतावच्छेदकत्वञ्च न पदवाच्यम्, अपि तु स्वर्गत्वपशुत्वादीनामनुगमकमुपलक्षणम्, अतस्तस्य वाच्यकोटौ प्रवेशो नास्ति, तदादिपदानां बुद्धिविषयतावच्छेदत्ववत् । तथा च स्वर्गकामपदसमभिव्याहारे तादृशधर्मो विजातीयस्वर्गत्वं तदवच्छिन्नसाधनत्वबोधात् कर्मणि प्रवृत्त्युपपत्तिरित्याहुः । आत्मनः प्रत्यक्षत्वानुमेयत्वयोविप्रतिपत्तिः अत्र श्रीजयन्तभट्टो योऽहं गजादिवस्तु पूर्वमनुभूतवान्, स एवेदानीं तत्स्मरामीति प्रत्यभिज्ञानविषय आत्मैव। स च शरीरादिभिन्नः, शरीरस्य उपचयापचयादिना भेदात् । येषु भिद्यमानेषु यदभिन्नमनुभयते, तत्तेभ्यो भिन्नं यथा कुसुमेभ्यः सूत्रमिति न्यायेनात्मा पृथगेवानुभवविषयः प्रत्यक्षश्चेति ब्रवीति । वाचस्पतिमिश्रा अपि भामत्याः प्रारम्भ एव पूर्वपक्षे जीवः प्रत्यक्षः शरीरादिभिन्नत्वेनापीत्याहुः । सिद्धान्तिनस्तु शरीरादिविशिष्टस्यैवात्मनस्तादृशानुभवगोचरत्वं न तु केवलस्येत्याहुः । भामतीकारोऽपि शास्त्रचिन्तकानां खलु अनुमानादिव्यवहारो न तु प्रतिपतॄणामिति वदन् शरीरमेवाहंबुद्धयालम्बनमिति स्पष्टमाह। आनन्दबोधाचार्यास्तु अनुमानेनापि न शरीरव्यतिरिक्तात्मसिद्धिः । तथाहि, अनुमानप्रयोगः चैत्रशरीरावच्छिन्नभोगवान् मैत्रशरीरावच्छिन्नभोगवद्भिन्नो मैत्रशरीरावच्छिन्नभोगानधिकरणत्वादित्यनुमानं भेदसाधकं चैत्रमैत्रयोर्वक्तव्यम् । अत्र पृच्छामः कथं हेतुज्ञानमनुमितेः पूर्वं जायेत ? मैत्रशरीरावच्छिन्नसुखादेः चैत्रशरीरावच्छिन्नेऽप्यात्मनि उपाधिभेदमात्राद् भिन्नत्वेन सन्दिह्यमाने सद्भावसन्देहाच्चैत्रमैत्रकर्णयोभिन्नयोरेकाकाशगतविभिन्नशब्दवत् । ततश्च चैत्रमैत्रात्मनोर्भेदनिश्चये सति हेतुसिद्धिः, हेतुनिश्चये सति भेदानुमानमिति स्पष्टमितरेतराश्रयत्वम् ।

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 384