Book Title: Nyayamanjari Part 02 Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri Publisher: Sampurnand Sanskrit Vishva VidyalayPage 14
________________ अन्विताभिधानमेवमुपपादयन्ति अद्वैतसिद्धिकाराः, पदानामन्वयानुभवजननसामर्थ्यमेव शक्तिरित्युच्यते । एकैकपदार्थस्तु एकसम्बन्धिज्ञानस्यापरसम्बन्धिस्मारकत्वन्यायेन स्मयंते तादृशशक्तिरूपसम्बन्धेन । अत एव तादृशस्मृतेः स्मृत्यन्तरसाधारणत्वात् द्वारमित्यादौ पिधेहीत्यर्थाध्याहार एव, न तु पदाध्याहारः । शाब्दत्वञ्च पदजन्यानुभवत्वेन, न तु पदजन्यपदार्थोपस्थितिजन्यत्वेन, गौरवात् । अत एव घटेन जलमाहरेत्यादौ सामोपस्थितछिद्रेतरत्वादेरपि शाब्दबोधविषयत्वाङ्गीकारः, तार्किकमते प्रतियोगित्वाधेयत्वादिवत् । अत एवोद्भिदा यजेत इत्यादौ नामधेयस्य साक्षादेव भावनायामन्वयः, तस्य श्रावणप्रत्यक्षोपस्थापितत्वात् । अभिहितान्वये तु पदैरभिहिताः पदार्थाः शाब्दबोधं जनयन्ति । पदानि तु पदार्थोपस्थिति जनयित्वा निवर्तन्ते । पदार्थोपस्थितिस्तु अनुभव एव, न तु स्मरणं स्मारकमूलसम्बन्धाभावात् । स च न प्रमा, अज्ञातविषयाभावात् । अत एवात्र पदार्था अभिहिता उच्यन्ते । तादृशा वाक्यार्थमनुभावयन्ति । वाक्यार्थश्च लक्ष्यः । पदार्थज्ञानञ्च स्मृत्यनुभवविलक्षणम् । __ अस्मिन् मते द्वारमित्यादौ पिधेहीति शब्दाध्याहार एव, शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यते इति नियमात् । अत एव यत्र पदं किमपि नास्ति पदार्थाः प्रमाणान्तरेणैवोपस्थिता भवन्ति, तत्र नाध्याहारः । यथा . पश्यतः श्वेतिमारूपं हेषाशब्दञ्च शृण्वतः । __खुरविक्षेपशब्दञ्च श्वेतोऽश्वो धावतीति धीः ॥ इत्युक्तं भट्टाचार्यैः । श्वेतरूपस्य चाक्षुषं प्रत्यक्षं, हेषाशब्दस्य श्रावणं, तथा खुरविक्षेपशब्दस्य । खुरविक्षेपशब्देन हेषाशब्देन च अश्वधावनानुमानं श्वेतरूपदर्शनेन च अश्वस्य श्वेतत्वनिश्चयः, सर्वमेतत् सम्मेल्य श्वेतोऽश्वो धावतीति धियं जनयन्ति इत्याहुः । पार्थसारथिमिश्रा अभिहितान्वयवादमेवं समर्थयन्ते, तथाहि, न केवलमभिहितान्बये लाघवमपि तु सूत्रभाष्याद्यानुगुण्यञ्च । सूत्रन्तावत् “तद्भूतानां क्रियार्थत्वेन समाम्नायः अर्थस्य तन्निमिPage Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 384