Book Title: Nyayamanjari Part 02
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

Previous | Next

Page 12
________________ ( ७ ) पदवाक्ययोः स्फोटरूपयोरभिव्यक्तौ कारणं योऽभ्युपगम्यते पूर्वपूर्ववर्णानुभवजन्यसंस्कारः, स एव कारणं पदवाक्याभिव्यक्ती स्वीकार्यमिति मते स्फोटवैयर्थ्यमिति च मीमांसकादिवदेव खण्डनयुक्तिमाचष्टे । ____ वस्तुतस्तु प्रणव एव स्फोटः, स च "एतद्वै सत्यकाम परञ्चापरञ्च ब्रह्म यदोङ्कारः","ओङ्कार एवेदं सर्वम्","प्रणवो ह्यपरं ब्रह्म प्रणवश्व परः स्मृतः" इत्यादिश्रुतिः प्रणवस्य ब्रह्मत्वबोधिका वर्तते; तथापि प्रणवार्थस्य ब्रह्मणः सर्वात्मकत्वात् प्रणवस्य सर्वात्मकत्वोक्तिः गौणीति सर्वेषामङ्गीकारः प्रणवस्याचेतनत्वात् चेतनपूर्विकायाः सृष्टे: “यस्सर्वज्ञः सर्ववित् तस्मादेतद् ब्रह्म नामरूपञ्च जायते'' इति श्रुत्युक्ताया जडे स्फोटेऽसम्भवात् तन्निराकरणं युज्यते । यदि चाङ्गीक्रियमाणः स्फोटश्चेतन इत्यप्यभ्युपगम्यते, तदा नास्माकं तैस्सह विवादः । सूचितञ्चेदं श्रीबादरायणेन “अन्यभावव्यावृत्तेश्च'' (१-३-११ ब्र० सू०) इति सूत्रेण । स्फोटस्य चैतन्याद्यङ्गीकारे तस्य ब्रह्मान्यत्वव्यावृत्तेरित्यर्थः । स्पष्टीकृतमिदम् अप्पय्यदीक्षितैायरक्षामणौ। कर्मेन्द्रियाणि साङ्ख्यमतखण्डनावसरे महता संरम्भेण जयन्तभट्टस्तदभ्युपगतानि कर्मेन्द्रियाणि खण्डयति । तथाहि, अत्यल्पमुच्यते पञ्चकर्मेन्द्रियाणीति, कण्ठोऽन्ननिगरणेन स्तनकलशौ आलिङ्गनादिना वक्षः, भारवहने अंसद्वयं किमिति नेन्द्रियमुच्यते ? तत्कार्यस्य शरीरावयवेन निष्पादनादिति चेत्, किन्नु भवान् अन्नपानं पाणिपादेन निगिरति पायुना वा। वागिन्द्रियं सुतरामहृदयङ्गमं संयोगविभागनिर्वो हि शब्दो वागिन्द्रियं नाम न कश्चिद् वाकशब्देन वर्णात्मकशब्दाभिधानाल्लोके इत्यादिना। इदन्तु बोध्यं कर्मेन्द्रियाणि भगवद्गीतायां स्वशब्देनैव श्रूयन्ते । कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ॥ इति । ब्रह्मसूत्रेषु च कति इन्द्रियाणि इति संशये हस्तादयस्तु स्थितेऽतो नैवमिति सूत्रेण। ग्रहशब्दितेन्द्रियधारायां"हस्तौ वै ग्रहः' इति “वाग्वै ग्रहः' इति च वाग्हस्तयोरिन्द्रिययोरभिधानाद् वागादीनामिन्द्रियत्वमभ्युपगच्छन्तीत्यन्यदेतत् ।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 384