________________
( ७ ) पदवाक्ययोः स्फोटरूपयोरभिव्यक्तौ कारणं योऽभ्युपगम्यते पूर्वपूर्ववर्णानुभवजन्यसंस्कारः, स एव कारणं पदवाक्याभिव्यक्ती स्वीकार्यमिति मते स्फोटवैयर्थ्यमिति च मीमांसकादिवदेव खण्डनयुक्तिमाचष्टे । ____ वस्तुतस्तु प्रणव एव स्फोटः, स च "एतद्वै सत्यकाम परञ्चापरञ्च ब्रह्म यदोङ्कारः","ओङ्कार एवेदं सर्वम्","प्रणवो ह्यपरं ब्रह्म प्रणवश्व परः स्मृतः" इत्यादिश्रुतिः प्रणवस्य ब्रह्मत्वबोधिका वर्तते; तथापि प्रणवार्थस्य ब्रह्मणः सर्वात्मकत्वात् प्रणवस्य सर्वात्मकत्वोक्तिः गौणीति सर्वेषामङ्गीकारः प्रणवस्याचेतनत्वात् चेतनपूर्विकायाः सृष्टे: “यस्सर्वज्ञः सर्ववित् तस्मादेतद् ब्रह्म नामरूपञ्च जायते'' इति श्रुत्युक्ताया जडे स्फोटेऽसम्भवात् तन्निराकरणं युज्यते । यदि चाङ्गीक्रियमाणः स्फोटश्चेतन इत्यप्यभ्युपगम्यते, तदा नास्माकं तैस्सह विवादः । सूचितञ्चेदं श्रीबादरायणेन “अन्यभावव्यावृत्तेश्च'' (१-३-११ ब्र० सू०) इति सूत्रेण । स्फोटस्य चैतन्याद्यङ्गीकारे तस्य ब्रह्मान्यत्वव्यावृत्तेरित्यर्थः । स्पष्टीकृतमिदम् अप्पय्यदीक्षितैायरक्षामणौ।
कर्मेन्द्रियाणि साङ्ख्यमतखण्डनावसरे महता संरम्भेण जयन्तभट्टस्तदभ्युपगतानि कर्मेन्द्रियाणि खण्डयति । तथाहि, अत्यल्पमुच्यते पञ्चकर्मेन्द्रियाणीति, कण्ठोऽन्ननिगरणेन स्तनकलशौ आलिङ्गनादिना वक्षः, भारवहने अंसद्वयं किमिति नेन्द्रियमुच्यते ? तत्कार्यस्य शरीरावयवेन निष्पादनादिति चेत्, किन्नु भवान् अन्नपानं पाणिपादेन निगिरति पायुना वा। वागिन्द्रियं सुतरामहृदयङ्गमं संयोगविभागनिर्वो हि शब्दो वागिन्द्रियं नाम न कश्चिद् वाकशब्देन वर्णात्मकशब्दाभिधानाल्लोके इत्यादिना। इदन्तु बोध्यं कर्मेन्द्रियाणि भगवद्गीतायां स्वशब्देनैव श्रूयन्ते ।
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ॥ इति । ब्रह्मसूत्रेषु च कति इन्द्रियाणि इति संशये हस्तादयस्तु स्थितेऽतो नैवमिति सूत्रेण। ग्रहशब्दितेन्द्रियधारायां"हस्तौ वै ग्रहः' इति “वाग्वै ग्रहः' इति च वाग्हस्तयोरिन्द्रिययोरभिधानाद् वागादीनामिन्द्रियत्वमभ्युपगच्छन्तीत्यन्यदेतत् ।