________________
( ६ )
वैदिकप्रेरणयानुष्ठानात् काम्यानां साङ्गानामेव च फलजनकत्वं न तु तत्र यथाशक्तिन्याय इत्यभ्युपगमाच्च अङ्गेष्वपि विधित एव प्रवृत्तिर्वक्तव्येत्याहुः ।
वाक्येन प्रतिपाद्यमानः संसृष्टार्थः, तत्र कः प्रधानमिति विचार्य सर्वस्य कारककलापस्य निर्वर्त्यां क्रियां क्रियानिर्वत्यं फलमिति फलमेव प्रधानमित्याह ।
नव्यतार्किकास्तु प्रथमान्तमुख्यविशेष्यकशाब्दबोधोपगमात् प्रथमान्तार्थः प्रधानमित्याहुः । फलं पुरुषार्थ इत्यस्य पुरुषाश्रितमित्यर्थः, न तु पुरुषप्राधान्यमिति ।
व्याकरणप्रशंसा
व्याकरणप्रामाण्ये तद्दृषणानि प्रतिक्षिप्य तस्य प्रामाण्यं स्वयमुपोद्वलयन् व्याकरणाध्ययनं महत्या वाग्वैखर्या प्रशंसति भट्टजयन्तः । तथाहि, पवित्रात् सर्वस्मात् पवित्र जनबहुमतमधिगतचतुर्वर्गमग्राम्यमात्मानं कर्तुमध्येतव्यं व्याकरणम् । आह च,
1
आपः पवित्रं परमं पृथिव्याः अद्भयः पवित्रं परमं हि मन्त्रः । तेषाञ्च सामग्र्यंजुषां पवित्रं महर्षयो व्याकरणं निराहुः ॥ रूपान्तरेण देवास्ते विहरन्ति महीतले । ये व्याकरणसंस्कारपवित्रितमुखा नराः ॥
मनुरप्याह,
यश्च व्याकुरुते वाचं यश्च मीमांसते गिरम् । तावुभौ प्रथितौ लोके पङ्क्तिपावनपावनी ॥
इत्यादिना ।
यद्यपि कुमारिलेन व्याकरणाधिकरणे बहुप्रामाण्यविषये पराक्रान्तं प्रभाकरेण च बृहत्याम्, तथापि बार्हस्पत्यसूत्रोक्तव्याकरणदूषणानां परिहारो जयन्तभट्टेन तद्व्याख्यात्रा च सम्यगेव व्यधायीति परः प्रमोदः पाठकानाम् । स्फोटवादः
स्फोटवादो नैयायिकैः नाङ्गीक्रियते खण्ड्यते च । जयन्तभट्ट सयुक्तिकं तं वादं खण्डयति ।