________________
चपेटापरिहाराय मोदकप्राप्तयेऽपि वा।
प्रवर्तते वटुर्नासौ जुहुधीति नियोगतः ॥ अपि च गुर्वाज्ञया प्रवृत्तिं वदन्तं प्रत्याह श्रीजयन्त आज्ञा हि नाम नैवान्यसम्पाद्यत्वेन गम्यते ।
नानुष्ठातुरियं बुद्धिराज्ञा सम्पाद्यतामिति । एवं हि यस्य कस्यापि प्रवर्तेत स आज्ञया ॥ न चेह बालोन्मत्तादिवचनाद् यत्नजितात् । सत्यपि प्रेरणाज्ञाने प्रवर्तन्ते सचेतसः । भयं नाशक्यते यस्मात् फलं वापि समीहितम् । नाज्ञानुष्ठीयते जनैः तथाविधस्य राज्ञोऽपि ॥ वर्तमानापदेशेऽपि फलं यत्रावगम्यते ।
तत्र प्रवर्तते कामी लिङादिष्वश्रुतेष्वपि । प्राभाकरास्तु कार्य लिङर्थः, यजेत स्वर्गकाम इत्यादौ स्वर्गकामनियोज्यकं यागविषयकं कार्यमिति बोधाद् यागादौ कार्यत्वज्ञानात् प्रवर्तते । कार्यञ्च यागस्वर्गयोर्मध्यवर्ति फलापूर्वं तदर्थः । कामाधिकारे प्रधाने कामात् प्रवृत्तिः, अङ्गेषु वैधी । अतः अग्नीषोमीयपशुयागे ज्योतिष्टोमाङ्गभूते पशुहिंसायां न दोष इत्याहुः । निषेधे तु भाट्टा न कलजं भक्षयेदित्यत्र कलञ्जभक्षणकरणकनिवर्तना नसहितलिङर्थः, तेन च अनिष्टसाधनत्वानुमानम्, ततस्तादृशनिषिद्धान्निवृत्तिरिति वदन्ति । प्राभाकरास्तु निषेधेऽपि कलञ्जभक्षणाभावविषयकं कार्यमित्येव बोधः, तज्ज्ञानेन प्रवृत्तिप्रागभावरूपस्यौदासीन्यस्य केवलात्मस्वरूपावस्थानापरपर्यायस्य प्रचलितावस्थपुरुषेणानुपाल्यतया कृतिविषयत्वोपपत्तेस्तत्रापि विधिरेवेत्याहुः ।
जयन्तभट्टस्तु खण्डापूर्वार्थं नित्यानुष्ठानात् तेषाञ्च फलाभावात् तदनुष्ठानसिद्धयर्थं कार्यमेव वेदार्थ इति तु न वक्तुं शक्यते, विश्वजिदादिवत् नित्येष्वपि फलं पापक्षयादिकमभ्युपेयमेव भट्टमतवत्, अन्यथा खण्डापूर्वार्थे प्रवृत्तिर्न स्यात् । काम्येषु इतिकर्तव्यतादौ विधितः प्रवृत्तिर्न तु कामनया। अतोऽङ्गभूते पशुयागादौ न हिंसा दोष इति तु जयन्ता नाभ्युपगच्छन्ति । साङ्गे प्रधाने