________________
( ४ ) शक्ततासम्बन्धेन घटत्ववत्ताज्ञानमेव कारणमुपेयते, तत्र च शक्ततासम्बन्धेन घटत्वं स्वरूपतो भासत इति लाघवात् नानन्तकार्यकारणभावकल्पनाप्रसङ्गः । अतो लाघवादेव जातिशक्तिरित्याहुः, जातेः समवायेनैव स्वरूपतो भानमिति नियमाभावात् ।
गदाधरभट्टाचार्या अपि शक्तिवादग्रन्थे जातिशक्तिवादे लाघवं प्रदर्श्य जातिशक्ति समर्थयन्ते । तथाहि, शक्तिवादे पदविशेषणतापन्नशक्तौ निरूपितत्वसम्बन्धेन, शक्तिसम्बन्धेन पदे वा स्वरूपतो गोत्वादिप्रकारिकाया एव शक्तिधियः स्वीकारात् । न हि समवायेनैव जातेः स्वरूपतः प्रकारतेति नियमः प्रामाणिकः; घटं जानामीत्यादौ प्रकारितासम्बन्धेन स्वरूपतो घटत्वादीनां ज्ञानांशे प्रकारत्वोपगमादिति ।
लिङर्थविचारः भट्टास्तावत् लिङर्थः प्रेरणापरपर्यायः शब्दभावना इत्याहुः । आचार्येण गामानयेत्युक्ते आचार्यः . मां प्रेरयति आचार्यप्रेरितोऽहं करोमि इति शिष्यस्य बुद्धेरनुभवात् । न च पुरुषार्थमप्रदश्य विधिरपि पुरुषं स्वर्गसाधने यागादौ प्रवर्तयितुमशक्त इति वाच्यम्, अपौरुषेयं वेदवाक्यमपुरुषार्थे न प्रवर्तयेत्, अध्ययनविधिगृहीतत्त्वेन मात्रामात्रस्यापि वेदस्य निरर्थकत्वानुपपत्तेः । अतः स्वर्गकामो यजेतेत्यादौ आख्यातवाच्यभावनायां स्वर्गः साध्यत्वेन यागः साधनत्वेनान्वेति, ततो यागस्य फलसाधनत्वं ज्ञात्वा प्रवर्तत इत्याहुः । जयन्तभट्टस्तु नेदं साधु मन्यते । ___यद्यपि आचार्यचोदितोऽहं करोमि इति प्रत्येति; तथापि न तावता प्रवर्तते; किन्तु हिताहितप्राप्तिपरिहारार्थित्वे एव प्रवृत्तिनिवृत्त्योः कारणे । यद्यपि प्रयोक्त्राशयः शिष्यबुद्धौ प्रवृत्तेः पूर्वं वर्तते; तथापि प्रयोक्त्राशयानुमानेन स्वार्थसम्भावनयैव प्रवर्तते, न पुनः प्रयोक्तैव प्रीयतामित्याशयेन । पूर्वकाले बुद्धोऽपि सकलसत्त्वहिते प्रतिपन्नः परार्थं स्वप्रयोजनायैव सम्पादयति परार्थसम्पादनद्वारकन्तु तत् । तस्मात् स्वप्रीतिरेव प्रवर्तिका । ब्रवीति च जयन्तभट्टः