________________
सम्भवन्ति, न जातो। 'षड् देया द्वादश देयाश्चतुर्विंशतिर्देया' इति दक्षिणाविकल्पा व्यक्तावेव स्पष्टाः । अपि च "यदि पशुरुपाकृतः पलायते अन्यमालभेत” इत्यादी अन्यतद्वयसप्रतियोगी पशुव्यक्तिरेव । प्रत्यक्षविषये गवादिपदवृत्तित्वमिच्छतां प्रत्यक्षे गव्येव वृत्तिरुचिता। न च निष्कृष्टं सामान्य प्रत्यक्षं विशिष्टस्यैव प्रत्यक्षत्वादित्याहुः ।
मीमांसकास्तु गोत्वविशिष्टव्यक्तौ गोपदप्रयोगे सम्प्रतिपन्ने प्रथमोपस्थिते गोत्व एव शक्तिर्युक्ता नागृहीतविशेषणा बुद्धिविशिष्टेषुपजायत इति न्यायात् । अपि च श्येनचितं चिन्वीत इत्यादौ जातेरेव वाच्यत्वं दृश्यते, न व्यक्तौ, अत्र श्येनाकारताया निवर्त्यत्वात् । न चामूर्तानां न क्रियान्वयसम्भव इति शक्यम्, व्यक्त्याक्षेपद्वारेण जातेरपि क्रियासाधनत्वोपपत्तेः अरुणया कीणातीतिवत् । शरीरद्वारकस्य यागकरणस्यात्मकर्तृकत्वं यथा शरीरद्वारकं तथा व्यक्तिद्वारकं जातेः कारकत्वमाहुः ।।
__ अत्र जयन्तः, न जातिः पदस्यार्थः प्रत्ययानां प्रकृत्यान्वितस्वार्थपरत्वं सर्वाभ्युपगतम् ; प्रत्ययार्थश्च कारकं लिङ्गं संख्या च । न चैतत्त्रितयं प्रातिपदिकार्थे जातावन्वेति; अपि तु व्यक्तौ । अतो व्यक्तिवाचित्वमावश्यकमिति । न च व्यक्तिलक्षणयोपपत्तिः । यतः सकृदुच्चरितं पदमंशेन प्रकृत्यर्थेऽन्वीय ततः पश्चादंशान्तरेण व्यक्तावन्वेतीति न युक्तमित्यादिना महता संरम्भेण जातिशक्तिवादं समर्थयते । विभक्त्यर्थसंख्यालिङ्गादेः समानाभिधानश्रुत्या कारकान्वयः सामानाधिकरण्यसम्बन्धेन स्वीक्रियते, तेन व्यक्तावेव लिङ्गसंख्ये पर्यवस्यतः इति तु भाट्टाः।
मीमांसकमूर्धन्यः खण्डदेवाचार्यस्तु यद्यपि जातिशक्तिवादे च व्यक्तिबोधो व्यक्तौ लिङ्गसंख्यादेः सम्बन्धश्च सुलभः, व्यक्तिशक्तिवादे च जात्यवच्छिन्नव्यक्तौ शक्तिस्वीकारात् शक्त्यैक्यं जातिप्रकारकबोधश्च उपपद्येते, तथापि भवन्मते घटत्वं धर्मितावच्छेदकीकृत्य शक्यत्वसम्बन्धेन घटपदवत्तानिश्चयस्य घटो घटपदवान् इत्याकारकस्य कारणत्वं शाब्दबोधे वाच्यम्, अथवा घटपदत्वं धर्मितावच्छेदकीकृत्य शक्ततासम्बन्धेन घटवत्ताज्ञानस्य कारणत्वमित्यत्र विनिगमनाविरहः। मन्मते तु घटपदत्वं धर्मितावच्छेदकीकृत्य