________________
( २ )
व्यक्तिर्व्यञ्जकतामेति जातेर्दृष्टैव नान्यथा । दृष्टिर्यत्र यदा व्यक्तेस्तदा तत्रैव तन्मतिः । सर्वत्र विद्यते जातिनं तु सर्वत्र दृश्यते । तदभिव्यञ्जिका व्यक्तिर्यत्र तत्रैव दृश्यते ॥
.
गोव्यक्तौ गोत्वसद्भावे किं प्रमाणम् ? इहानीयमानायां गवि गोत्वदर्शनम्, अन्यत्रादर्शनञ्चान्यत्र तदसद्भावे ।
व्यक्तिसर्वगतत्वं कैश्चित्तार्किकैराश्रीयते । तत्रापि अद्यजातायां गवि कथं गोत्वधीः इति पृष्टे उक्तम्, तथैव गृह्यते, गोगोत्वयोरेक एव कालः । न च जातेः पुरास्तित्वम्, नापि सङ्क्रान्तिरन्यतः किन्तु स्वहेतोः सकाशात् सा व्यक्तिर्यदा जायते, तदैव गोत्वसम्बन्धोऽपि ।
अगोव्यावृत्तिरेव गोत्वमिति बौद्धपक्षो न सम्भवदुक्तिको गोत्वपरिज्ञानं विना अगोव्यावृत्त्यसिद्धेः ।
अत्र कुमारिलदूषणं दृष्ट्वा तत्परिहाराय बौद्धेनोत्प्रेक्षितः पन्था न युक्त इति वदन् जयन्तो बौद्धस्य न कापि गतिः समीचीनेति स्फोरयति । सुबन्तार्थ विचार:
तत्र च गवादिशब्दानां जातिरर्थः, व्यक्तिस्तु लक्षणादिना ज्ञायत इति मीमांसकाः । ' आकृतिस्तु क्रियार्थत्वात्' इति च जैमिनीयं सूत्रम् । तेषामयं निर्बन्धः । शब्दस्य अर्थस्य तयोः सम्बन्धस्य च नित्यत्वाद् वेदापौरुषेयत्वं सुखोपपादनं भवति इति । सूत्रमपि 'औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः, तस्य ज्ञानमुपदेश:' इत्यादि ।
तार्किकास्तु वेदानां पौरुषेयत्वोपपादने विशेषत आसक्ता ईश्वरप्रणीता वेदाः, शब्दार्थसम्बन्धाः सर्वेऽप्यनित्या इति च ब्रुवन्ति । मीमांसकाः पुनः आकृति - शब्दिता जातिरेवार्थं इति प्राहु: 'जातिमेवाकृति प्राहुः व्यक्तिराक्रियते यया ' इति भट्टवार्त्तिकमवलम्ब्य । तथा च तेषां जातेः पदवाच्यत्वव्यवस्थापनमा-वश्यकं बभूव । पदानां व्यक्तिवाचित्वं ब्रुवतामिमा युक्तयः समुन्मिषन्ति ।
तथाहि, प्रयोगचोदनासामञ्जस्याद् व्यक्तिः पदार्थः, पशुमालभेत, पशुं विशास्ति, पशुं प्रोक्षति इत्यादिविधिविहिता आलम्भादयो व्यक्तावेव