________________
न्यायमञ्जर्याम्
उपोद्घातः न्यायवैशेषिकशास्त्रे यद्यपि समानतन्त्रत्वेन न्यायभाष्यादौ प्रसिद्धे; तथापि साक्षाद्भगवता महेश्वरेण उलूकवेषेण कणादाय स्वयमेव च गौतमायोपदिष्टे । ते च वेदप्रामाण्यं व्यवस्थाप्य वैदिकं मतं दृढीकर्तुं प्रवृत्ते । तदुक्तं जयन्तभट्टेन "अशेषदुष्टतार्किकोपमर्दद्वारकदृढतरवेदप्रामाण्यप्रत्ययाधायिन्यायोपदेशक्षममक्षपादोपदिष्टमिदं न्यायविस्तराख्यं शास्त्रं प्रतिष्ठाननिबन्धनमिति पर विद्यास्थानम्" इति। वैदिकमतस्थैर्याय प्रवृत्तः तार्किकेषु भारद्वाजोद्योतकरः स्वीयन्यायवात्तिके "यदक्षपादः प्रवरो मुनीनां शमाय शास्त्रं जगतो जगाद । कुतार्किकाज्ञाननिवृत्तिहेतुः करिष्यते तस्य मया निबन्धः' इति स्वग्रन्थारम्भ एव दिङ्नागाख्यबौद्धकुतर्कनिरासाय स्वग्रन्थारम्भं प्रतिजज्ञे । तदनन्तरमागतस्य धर्मकीर्तेः बौद्धाचार्यस्य खण्डनं भट्टजयन्तेन श्रीवाचस्पतिमित्रैः उदयनाचार्येण च सविस्तरं व्यधायि । मीमांसकेषु कुमारिलभट्टो बौद्धखण्डने सर्वेषां मार्गप्रदर्शको बभूव । श्रीशबरस्वामिप्रदर्शितया रीत्या प्रभाकरोऽपि बृहत्यां बौद्धमतं चखण्ड । श्रीशङ्कराचार्या अपि बहुषु स्थलेषु बृहदारण्यकभाष्यादौ बौद्धमतं खण्डयन्ति । न्यायभाष्यखण्डनस्य धर्मकीतिकृतस्य निग्रहस्थानान्तान् षोडशपदार्थानभिव्याप्य स्थितस्य खण्डनं जयन्तभट्टेनैव क्रियत इति विशेषः । - इदानीं पञ्चमपरिच्छेदे अपोहवादः, अपोहस्य शब्दार्थत्वञ्च विस्तरेणात्र निरस्येते । अपोहश्च जाति तिरस्कृत्य जातिस्थाने बौद्धैरङ्गीकृत इति हेतोरपोहनिरासे पराक्रान्तं ग्रन्थकृता ।
जातिस्तु सर्वसर्वगता उत व्यक्तिसर्वगतेति विचार्योभयमपि पक्षं निर्दुष्टं निर्धारयति श्रीजयन्तः । तथाहि,
सर्वसर्वगता जातिरिति तावदुपेयते । सर्वत्राग्रहणं तस्या व्यञ्जकव्यक्त्यसन्निधेः ।।