________________
( ८ )
एवमन्तःकरणमपि
एव साङ्ख्योक्तत्रैविध्यं चायुक्तमेवेति श्रीजयन्तः। वेदान्तिनस्तु अन्तःकरणस्यैकत्वेऽपि वृत्तिभेदाच्चातुर्विध्यमुपचरन्ति । तदुक्तम्, मनोबुद्धिरहङ्कारश्चित्तं करणमान्तरम् । संशयो निश्चयो गर्वः स्मरणं विषया अमी इत्यभियुक्तोक्तेरित्याहुः ।
असत्कार्यवादसमर्थनम्
असत्कार्यवादं दूषयन्तः साङ्ख्या वेदान्तिनश्चाहुः असन् घटश्चेदुत्पद्येत, असत् शशविषाणं कुतो नोत्पद्येत । यदि घटस्यैव शक्तिविशेषो मृदि वर्तते, न शशविषाणस्येत्युच्यते, तर्हि सा शक्तिः घटसूक्ष्मावस्थैवेति पर्यायेण सत्कार्यवादापत्तिरिति ।
भट्टजयन्तस्तु सम्यगेवेदं दूषणं परिहरति । आह च सा शक्तिर्योग्यत्वावच्छिन्नस्वरूपसहकारिसन्निधानमेव । सा च अवस्थिता आगन्तुका च । सत्त्वाद्यवच्छिन्नं स्वरूपमवस्थिता शक्ति:, आगन्तुका च दण्डचक्रादिरूपा । उभयोरपि घटे कारणत्वमुपेयते । योग्यता च नार्थान्तरमपि तु वस्तुविशेष एव इति सन्नियमादुपादाननियम इति । न च शक्तिः कार्यमेवेति वाच्यम्, तथा सति कार्यात् कार्योत्पत्तिरित्यसङ्गतमापद्येत । न च घटाद् घटोत्पत्तिरिति । शाब्दबोधविषये नैयायिका मीमांसकाश्च विप्रतिपद्यन्ते । न्यायविदः पदज्ञानं करणं वृत्तिज्ञानसहकृतपदज्ञानजन्यपदार्थोपस्थितिर्व्यापारः शाब्दबोधः फलमित्यूचुः । पदजन्योपस्थितिः संसर्गांशे नापेक्ष्यते, यथा घटमानयेत्यादौ घटपदार्थस्य घटस्य अम्पदार्थे कर्मत्वे योऽन्वयः संबन्ध आधेयत्वरूपस्तत्र पदजन्यपदार्थोपस्थितिर्नापेक्ष्यते, समभिव्याहारेणैव संसर्गलाभसम्भवात् । तच्छक्तपदज्ञानजन्यतदुपस्थित्युत्तरशाब्दबोधे तादृशोपस्थितेर्हेतुत्वात् संसर्गस्य समभिव्याहारेणैव भानमिच्छन्ति, उपस्थितिकारणत्वे व्यभिचाराभावात् ।
एतत्तु प्राभाकरा न रोचयन्ते । संसर्गस्य विना पदजन्योपस्थितिभाने शाब्दबुद्धौ गगनादेरपि भानापत्तेः । अतोऽन्विते शक्तिरङ्गीकार्या । कार्यान्विते इति तु न तात्पर्येण, कार्यस्य कार्यान्वयाभावात् । अन्वयस्तु घटपदेन अम्पदेन चोपस्थितत्वात् तद्भाने न व्यभिचार इत्याहुः ।