________________
अन्विताभिधानमेवमुपपादयन्ति अद्वैतसिद्धिकाराः, पदानामन्वयानुभवजननसामर्थ्यमेव शक्तिरित्युच्यते । एकैकपदार्थस्तु एकसम्बन्धिज्ञानस्यापरसम्बन्धिस्मारकत्वन्यायेन स्मयंते तादृशशक्तिरूपसम्बन्धेन । अत एव तादृशस्मृतेः स्मृत्यन्तरसाधारणत्वात् द्वारमित्यादौ पिधेहीत्यर्थाध्याहार एव, न तु पदाध्याहारः । शाब्दत्वञ्च पदजन्यानुभवत्वेन, न तु पदजन्यपदार्थोपस्थितिजन्यत्वेन, गौरवात् । अत एव घटेन जलमाहरेत्यादौ सामोपस्थितछिद्रेतरत्वादेरपि शाब्दबोधविषयत्वाङ्गीकारः, तार्किकमते प्रतियोगित्वाधेयत्वादिवत् । अत एवोद्भिदा यजेत इत्यादौ नामधेयस्य साक्षादेव भावनायामन्वयः, तस्य श्रावणप्रत्यक्षोपस्थापितत्वात् । अभिहितान्वये तु पदैरभिहिताः पदार्थाः शाब्दबोधं जनयन्ति । पदानि तु पदार्थोपस्थिति जनयित्वा निवर्तन्ते । पदार्थोपस्थितिस्तु अनुभव एव, न तु स्मरणं स्मारकमूलसम्बन्धाभावात् । स च न प्रमा, अज्ञातविषयाभावात् । अत एवात्र पदार्था अभिहिता उच्यन्ते । तादृशा वाक्यार्थमनुभावयन्ति । वाक्यार्थश्च लक्ष्यः । पदार्थज्ञानञ्च स्मृत्यनुभवविलक्षणम् ।
__ अस्मिन् मते द्वारमित्यादौ पिधेहीति शब्दाध्याहार एव, शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यते इति नियमात् । अत एव यत्र पदं किमपि नास्ति पदार्थाः प्रमाणान्तरेणैवोपस्थिता भवन्ति, तत्र नाध्याहारः । यथा
. पश्यतः श्वेतिमारूपं हेषाशब्दञ्च शृण्वतः ।
__खुरविक्षेपशब्दञ्च श्वेतोऽश्वो धावतीति धीः ॥ इत्युक्तं भट्टाचार्यैः ।
श्वेतरूपस्य चाक्षुषं प्रत्यक्षं, हेषाशब्दस्य श्रावणं, तथा खुरविक्षेपशब्दस्य । खुरविक्षेपशब्देन हेषाशब्देन च अश्वधावनानुमानं श्वेतरूपदर्शनेन च अश्वस्य श्वेतत्वनिश्चयः, सर्वमेतत् सम्मेल्य श्वेतोऽश्वो धावतीति धियं जनयन्ति इत्याहुः ।
पार्थसारथिमिश्रा अभिहितान्वयवादमेवं समर्थयन्ते,
तथाहि, न केवलमभिहितान्बये लाघवमपि तु सूत्रभाष्याद्यानुगुण्यञ्च । सूत्रन्तावत् “तद्भूतानां क्रियार्थत्वेन समाम्नायः अर्थस्य तन्निमि