________________
( १० ) त्तत्वात्'' ( १-१-२५ पू० मी० ) इति । ____ भाष्यञ्च पदानि हि स्वं स्वमर्थमभिधाय निवृत्तव्यापाराणि । अथेदानी पदार्था अवगताः सन्तो वाक्यार्थमवगमयन्ति इति । ____ नात्र नैयायिकस्य काचनानुपपत्तिः । पदज्ञानं करणं ज्ञायमानं पदं वेति वदतः पदार्थस्मृतिर्व्यापारः स्मर्यमाणपदार्था व्यापार इति वा विनिगमकाभावेन वक्तुं शक्यत्वात् । तदयमर्थः । पदानां पदार्थस्वरूपमेवाभिधेयम् । अन्वितरूपस्तु पदार्थः पदार्थगम्यः । अत एव वाक्यार्थो लाक्षणिक इति मीमांसकाः, अभिहितार्थसम्बन्धादभिधीयमानत्वात् । न च पदार्था वाक्यार्थविशेषेणाविनाभावरहिताः कथं तत्र लक्षणेति शङ्कनीयम् । नावश्यमविनाभावनिमित्तैव लक्षणा । एकवाक्यतादि तत्र निमित्तम् । एकवाक्यता प्रत्यक्षा सोमेन यजेत इत्यादौ, क्वचिदनुमेया यथा दर्शपूर्णमासवाक्यस्य समिधो यजतीत्याद्यङ्गबोधकवाक्यस्य चेति ।
__ अभिहितान्वयाङ्गीकारे मन्त्राणां तत्प्रतिपाद्यार्थानुष्ठाने अङ्गत्वबोधः फलमिच्छन्ति खण्डदेवाचार्याः । तथाहि कदाचन स्तरीरसि इत्यश्वाभिधानीमादत्ते इति वाक्यजन्यबोधे मन्त्रः इतिशब्दार्थः सन् तादृशवाक्यजन्यबोधे कारणम् । ततश्च तज्जन्यप्रमाविषयत्वान्मन्त्रस्य धर्मप्रमाजनकत्वरूपं धर्मे प्रामाण्यं सिद्धमिति ।
लिङर्थे विशेषः मीमांसका भावनामुख्यविशेष्यकबोधं स्वर्गकामो यजेत इत्यादिवाक्याद् भवतीति वदन्ति । भावनायाः किं केन कथमिति चांशत्रयाकाङ्क्षायां स्वर्गकामो यजेत इत्यादौ स्वर्गों भाव्यत्वेन, यागः करणत्वेन, प्रकरणोपस्थितान्यङ्गानि इतिकर्तव्यतात्वेन चीयन्त इति स्वर्गकामशब्दस्य काम्यमानस्वर्गे लक्षणया तस्य भावनान्वयमाहुः ।
___ न्यायमते तु इष्टसाधनत्वं लिङर्थः, तस्य यागेऽन्वयः, इष्टसाधनीभूतयागानुकूलकृतिमानिति च बोध इत्याहुः। अत्र तादृशमिष्टं स्वर्ग इति कथमवगन्तुं शक्यते कामपदार्थविशेषणतयोपस्थितस्य स्वर्गस्य इष्टे