________________
( ११ ) अभेदान्वयस्याव्युत्पन्नत्वात् । एकत्र विशेषणतयोपस्थितस्यान्यत्र विशेषणत्वायोगादित्याक्षिपन्ति । नैयायिकाग्रेसराः श्रीगदाधरभट्टाचार्यास्तु समभिव्याहृतपदोपस्थापितकामनाविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नसाधनत्वमेव लिङर्थः । इष्टतावच्छेदकत्वञ्च न पदवाच्यम्, अपि तु स्वर्गत्वपशुत्वादीनामनुगमकमुपलक्षणम्, अतस्तस्य वाच्यकोटौ प्रवेशो नास्ति, तदादिपदानां बुद्धिविषयतावच्छेदत्ववत् । तथा च स्वर्गकामपदसमभिव्याहारे तादृशधर्मो विजातीयस्वर्गत्वं तदवच्छिन्नसाधनत्वबोधात् कर्मणि प्रवृत्त्युपपत्तिरित्याहुः ।
आत्मनः प्रत्यक्षत्वानुमेयत्वयोविप्रतिपत्तिः अत्र श्रीजयन्तभट्टो योऽहं गजादिवस्तु पूर्वमनुभूतवान्, स एवेदानीं तत्स्मरामीति प्रत्यभिज्ञानविषय आत्मैव। स च शरीरादिभिन्नः, शरीरस्य उपचयापचयादिना भेदात् । येषु भिद्यमानेषु यदभिन्नमनुभयते, तत्तेभ्यो भिन्नं यथा कुसुमेभ्यः सूत्रमिति न्यायेनात्मा पृथगेवानुभवविषयः प्रत्यक्षश्चेति ब्रवीति । वाचस्पतिमिश्रा अपि भामत्याः प्रारम्भ एव पूर्वपक्षे जीवः प्रत्यक्षः शरीरादिभिन्नत्वेनापीत्याहुः । सिद्धान्तिनस्तु शरीरादिविशिष्टस्यैवात्मनस्तादृशानुभवगोचरत्वं न तु केवलस्येत्याहुः । भामतीकारोऽपि शास्त्रचिन्तकानां खलु अनुमानादिव्यवहारो न तु प्रतिपतॄणामिति वदन् शरीरमेवाहंबुद्धयालम्बनमिति स्पष्टमाह।
आनन्दबोधाचार्यास्तु अनुमानेनापि न शरीरव्यतिरिक्तात्मसिद्धिः । तथाहि, अनुमानप्रयोगः चैत्रशरीरावच्छिन्नभोगवान् मैत्रशरीरावच्छिन्नभोगवद्भिन्नो मैत्रशरीरावच्छिन्नभोगानधिकरणत्वादित्यनुमानं भेदसाधकं
चैत्रमैत्रयोर्वक्तव्यम् । अत्र पृच्छामः कथं हेतुज्ञानमनुमितेः पूर्वं जायेत ? मैत्रशरीरावच्छिन्नसुखादेः चैत्रशरीरावच्छिन्नेऽप्यात्मनि उपाधिभेदमात्राद् भिन्नत्वेन सन्दिह्यमाने सद्भावसन्देहाच्चैत्रमैत्रकर्णयोभिन्नयोरेकाकाशगतविभिन्नशब्दवत् । ततश्च चैत्रमैत्रात्मनोर्भेदनिश्चये सति हेतुसिद्धिः, हेतुनिश्चये सति भेदानुमानमिति स्पष्टमितरेतराश्रयत्वम् ।