Book Title: Nyayamanjari Part 02
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

Previous | Next

Page 11
________________ ( ६ ) वैदिकप्रेरणयानुष्ठानात् काम्यानां साङ्गानामेव च फलजनकत्वं न तु तत्र यथाशक्तिन्याय इत्यभ्युपगमाच्च अङ्गेष्वपि विधित एव प्रवृत्तिर्वक्तव्येत्याहुः । वाक्येन प्रतिपाद्यमानः संसृष्टार्थः, तत्र कः प्रधानमिति विचार्य सर्वस्य कारककलापस्य निर्वर्त्यां क्रियां क्रियानिर्वत्यं फलमिति फलमेव प्रधानमित्याह । नव्यतार्किकास्तु प्रथमान्तमुख्यविशेष्यकशाब्दबोधोपगमात् प्रथमान्तार्थः प्रधानमित्याहुः । फलं पुरुषार्थ इत्यस्य पुरुषाश्रितमित्यर्थः, न तु पुरुषप्राधान्यमिति । व्याकरणप्रशंसा व्याकरणप्रामाण्ये तद्दृषणानि प्रतिक्षिप्य तस्य प्रामाण्यं स्वयमुपोद्वलयन् व्याकरणाध्ययनं महत्या वाग्वैखर्या प्रशंसति भट्टजयन्तः । तथाहि, पवित्रात् सर्वस्मात् पवित्र जनबहुमतमधिगतचतुर्वर्गमग्राम्यमात्मानं कर्तुमध्येतव्यं व्याकरणम् । आह च, 1 आपः पवित्रं परमं पृथिव्याः अद्भयः पवित्रं परमं हि मन्त्रः । तेषाञ्च सामग्र्यंजुषां पवित्रं महर्षयो व्याकरणं निराहुः ॥ रूपान्तरेण देवास्ते विहरन्ति महीतले । ये व्याकरणसंस्कारपवित्रितमुखा नराः ॥ मनुरप्याह, यश्च व्याकुरुते वाचं यश्च मीमांसते गिरम् । तावुभौ प्रथितौ लोके पङ्क्तिपावनपावनी ॥ इत्यादिना । यद्यपि कुमारिलेन व्याकरणाधिकरणे बहुप्रामाण्यविषये पराक्रान्तं प्रभाकरेण च बृहत्याम्, तथापि बार्हस्पत्यसूत्रोक्तव्याकरणदूषणानां परिहारो जयन्तभट्टेन तद्व्याख्यात्रा च सम्यगेव व्यधायीति परः प्रमोदः पाठकानाम् । स्फोटवादः स्फोटवादो नैयायिकैः नाङ्गीक्रियते खण्ड्यते च । जयन्तभट्ट सयुक्तिकं तं वादं खण्डयति ।

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 384