Book Title: Nyayamanjari Part 02 Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri Publisher: Sampurnand Sanskrit Vishva VidyalayPage 15
________________ ( १० ) त्तत्वात्'' ( १-१-२५ पू० मी० ) इति । ____ भाष्यञ्च पदानि हि स्वं स्वमर्थमभिधाय निवृत्तव्यापाराणि । अथेदानी पदार्था अवगताः सन्तो वाक्यार्थमवगमयन्ति इति । ____ नात्र नैयायिकस्य काचनानुपपत्तिः । पदज्ञानं करणं ज्ञायमानं पदं वेति वदतः पदार्थस्मृतिर्व्यापारः स्मर्यमाणपदार्था व्यापार इति वा विनिगमकाभावेन वक्तुं शक्यत्वात् । तदयमर्थः । पदानां पदार्थस्वरूपमेवाभिधेयम् । अन्वितरूपस्तु पदार्थः पदार्थगम्यः । अत एव वाक्यार्थो लाक्षणिक इति मीमांसकाः, अभिहितार्थसम्बन्धादभिधीयमानत्वात् । न च पदार्था वाक्यार्थविशेषेणाविनाभावरहिताः कथं तत्र लक्षणेति शङ्कनीयम् । नावश्यमविनाभावनिमित्तैव लक्षणा । एकवाक्यतादि तत्र निमित्तम् । एकवाक्यता प्रत्यक्षा सोमेन यजेत इत्यादौ, क्वचिदनुमेया यथा दर्शपूर्णमासवाक्यस्य समिधो यजतीत्याद्यङ्गबोधकवाक्यस्य चेति । __ अभिहितान्वयाङ्गीकारे मन्त्राणां तत्प्रतिपाद्यार्थानुष्ठाने अङ्गत्वबोधः फलमिच्छन्ति खण्डदेवाचार्याः । तथाहि कदाचन स्तरीरसि इत्यश्वाभिधानीमादत्ते इति वाक्यजन्यबोधे मन्त्रः इतिशब्दार्थः सन् तादृशवाक्यजन्यबोधे कारणम् । ततश्च तज्जन्यप्रमाविषयत्वान्मन्त्रस्य धर्मप्रमाजनकत्वरूपं धर्मे प्रामाण्यं सिद्धमिति । लिङर्थे विशेषः मीमांसका भावनामुख्यविशेष्यकबोधं स्वर्गकामो यजेत इत्यादिवाक्याद् भवतीति वदन्ति । भावनायाः किं केन कथमिति चांशत्रयाकाङ्क्षायां स्वर्गकामो यजेत इत्यादौ स्वर्गों भाव्यत्वेन, यागः करणत्वेन, प्रकरणोपस्थितान्यङ्गानि इतिकर्तव्यतात्वेन चीयन्त इति स्वर्गकामशब्दस्य काम्यमानस्वर्गे लक्षणया तस्य भावनान्वयमाहुः । ___ न्यायमते तु इष्टसाधनत्वं लिङर्थः, तस्य यागेऽन्वयः, इष्टसाधनीभूतयागानुकूलकृतिमानिति च बोध इत्याहुः। अत्र तादृशमिष्टं स्वर्ग इति कथमवगन्तुं शक्यते कामपदार्थविशेषणतयोपस्थितस्य स्वर्गस्य इष्टेPage Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 384