Book Title: Nyayacharya Yashovijayji Krut Granthmala
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 299
________________ ॥ इति महामहोपाध्यायश्री कल्याण विजयगणिशिष्यमुख्यपंकितश्री लाज विजयगणिशिष्यावतंसपंमितश्रीजीत विजयगणित पंतश्री नयविजयगणिशिष्येण पंकितश्रीपद्मविजयगणिसोदरेण पंक्तियशोविजयगणिना विरचितायां जैनतर्कभाषायां निक्षेपपरिच्छेदः संपूर्णः, तत्संपूर्ती च संपूर्णीयं जैनतर्कभाषाग्रन्थः ॥ सूरिश्री विजयादिदेवसुगुरोः पट्टांबराहर्मणौ, सूरिश्री विजयादिसिंहसुगुरौ शक्रासनं जेजुषि । तत्सेवाप्रतिमप्रसादजनितश्रानशुच्या कृतो, ग्रन्थोऽयं वितनोतु कोविदकुले मोदं विनोदं तथा ॥ १ ॥ यस्यासन् गुरवोऽत्र जीतविजयप्राज्ञाः प्रकृष्टाशया, चाजन्ते सनया नयादिविजयाः प्राज्ञाश्च विद्याप्रदाः । प्रेम्णां यस्य च सद्म पद्मविजयो जातः सुधीः सोदरस्तेन न्यायविशारदेन रचिता स्तात्तर्कभाषा मुदे ॥ २ ॥ तर्काषामिमां कृत्वा मया यत्पुष्यमर्जितम् । प्रायां तेन विपुलां परमानन्दसंपदम् ॥ ३ ॥ पूर्व न्यायविशारदत्व बिरुदं काश्यां प्रदत्तं बुधैर्न्यायाचार्यपदं ततः कृतशतग्रन्थस्य यस्यार्पितम् । शिष्यप्रार्थनया नयादिविजयप्राज्ञोत्तमानां शिशुस्तत्त्वं किंचिदिदं यशोविजय इत्याख्यानृदाख्यातवान् ॥ ४ ॥ १ हृदयमानादर्शेषु दृश्यते वृत्तमिदं पृथगंकान्वितं तेनानुमीयतेऽदो यदन्यप्रकरणादेतत्कर्तृकादुपनीतं भवेत्केनापि, यद्वा प्रकरणग्रंथत्वेनास्य शिष्यशिक्षानिमित्तकस्वक्रियाज्ञापनाय पूज्यपादैरेवायं पृथग्न्यस्त: पश्चाद्भवेत्.

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364