________________
॥ इति महामहोपाध्यायश्री कल्याण विजयगणिशिष्यमुख्यपंकितश्री लाज विजयगणिशिष्यावतंसपंमितश्रीजीत विजयगणित पंतश्री नयविजयगणिशिष्येण पंकितश्रीपद्मविजयगणिसोदरेण पंक्तियशोविजयगणिना
विरचितायां जैनतर्कभाषायां निक्षेपपरिच्छेदः संपूर्णः, तत्संपूर्ती च संपूर्णीयं जैनतर्कभाषाग्रन्थः ॥ सूरिश्री विजयादिदेवसुगुरोः पट्टांबराहर्मणौ, सूरिश्री विजयादिसिंहसुगुरौ शक्रासनं जेजुषि । तत्सेवाप्रतिमप्रसादजनितश्रानशुच्या कृतो, ग्रन्थोऽयं वितनोतु कोविदकुले मोदं विनोदं तथा ॥ १ ॥ यस्यासन् गुरवोऽत्र जीतविजयप्राज्ञाः प्रकृष्टाशया, चाजन्ते सनया नयादिविजयाः प्राज्ञाश्च विद्याप्रदाः । प्रेम्णां यस्य च सद्म पद्मविजयो जातः सुधीः सोदरस्तेन न्यायविशारदेन रचिता स्तात्तर्कभाषा मुदे ॥ २ ॥ तर्काषामिमां कृत्वा मया यत्पुष्यमर्जितम् । प्रायां तेन विपुलां परमानन्दसंपदम् ॥ ३ ॥
पूर्व न्यायविशारदत्व बिरुदं काश्यां प्रदत्तं बुधैर्न्यायाचार्यपदं ततः कृतशतग्रन्थस्य यस्यार्पितम् । शिष्यप्रार्थनया नयादिविजयप्राज्ञोत्तमानां शिशुस्तत्त्वं किंचिदिदं यशोविजय इत्याख्यानृदाख्यातवान् ॥ ४ ॥
१ हृदयमानादर्शेषु दृश्यते वृत्तमिदं पृथगंकान्वितं तेनानुमीयतेऽदो यदन्यप्रकरणादेतत्कर्तृकादुपनीतं भवेत्केनापि, यद्वा प्रकरणग्रंथत्वेनास्य शिष्यशिक्षानिमित्तकस्वक्रियाज्ञापनाय पूज्यपादैरेवायं पृथग्न्यस्त: पश्चाद्भवेत्.