Book Title: Nyayacharya Yashovijayji Krut Granthmala
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 324
________________ ज्ञान ॥१४४॥ परिणतव्यविषयमपि मनःपर्यायज्ञानमन्युपगन्तव्यं स्यात्, चेष्टाहेतोरेव मनसस्तद्भाह्यत्वात । न च तेन दीन्द्रियादीनां समनस्कतापत्तिः, कपर्दिकासत्तया धनित्वस्येव, एकया गवा गोमत्त्वस्येव, सूक्ष्मेण मनसा समनस्कत्वस्यापादयितुमशक्यत्वात्, | तदिदमभिप्रेत्योक्तं निश्चयधात्रिंशिकायां महावादिना - "प्रार्थनाप्रतिघाताच्यां चेष्टन्ते पीन्द्रियादयः । मनःपर्याय विज्ञानं युक्तं तेषु न चान्यथा ॥ १ ॥” इति । न चैवं ज्ञानस्य पंचविधत्वविना गोछेदात्सूत्रापत्तिः, व्यवहारतश्चतुर्विधत्वेनोक्ताया अपि जाषाया निश्चयतो वैविध्यानिधानवन्नयविवेकेनोत्सूत्राभावादिति दिकू । सर्वविषयं केवलज्ञानम् । सर्वविषयत्वं च सामान्यधर्मानवचिन्ननिखिलधर्मप्रकारकत्वे सति निखिलधर्मिविषयत्वम् । प्रमेयवदिति ज्ञाने प्रमेयत्वेन निखिलधर्मप्रकारकेऽतिव्याप्तिवारणायानवैचिन्नान्तं, केवलदर्शनेऽतिव्याप्तिवारणाय सत्यन्तं, | विशेष्यभागस्तु पर्यायवाद्यनिमतप्रतीत्यसमुत्पाद रूपसन्तान विषयक निखिलधर्मप्रकारकज्ञाननिरासार्थः । वस्तुतो निखिल - | ज्ञेयाकारवत्त्वं केवलज्ञानत्वं । केवलदर्शनाच्युपगमे तु तत्र निखिल दृश्याकारवत्त्वमेव न तु निखिल शेयाकारवत्त्वमिति नातिव्याप्तिः । न च प्रतिस्वं केवलज्ञाने केवलज्ञानान्तरवृत्तिस्वप्राक्काल विनष्टवस्तुसंबन्धिवर्तमानत्वाद्याकाराजावादसंजयः, स्व| समानकालीन निखिलज्ञेयाकारवत्त्वस्य विवक्षणात् । न च तथापि केवलज्ञानग्राह्ये आद्यवृत्तित्वप्रकारकत्वावचिन्नविशेप्यताया द्वितीयक्षणे नाशो, द्वितीयक्षणवृत्तित्वप्रकारकत्वावचिन्न विशेष्यतायाश्चोत्पादः, इत्यमेव ग्राह्यसामान्यविशेष्यताधौव्यसंनेदेन केवलज्ञाने त्रैलक्षण्यमुपपादितमित्येकदा निखिलज्ञेयाकारवत्त्वासंभव एवेति शंकनीयम्, समानकालीनत्वस्य क्षणगर्भत्वे दोषाभावात्, अस्तु वा निखिलज्ञेयाकारसंक्रमयोग्यतावत्त्वमेव लक्षणं, प्रमाणं च तत्र ज्ञातत्वमत्यन्तोत्कर्षव बिन्दुः ॥ १४४ ॥

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364