Book Title: Nyayacharya Yashovijayji Krut Granthmala
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
| रागादिक्लेशहानिहेतुः, नैरात्म्यावगतावेवात्मात्मीयानिनिवेशानावेन रागदेषोछेदात् संसारमूल निवृत्तिसंजवात्, आत्माव गतौ च तस्य नित्यत्वेन तत्र स्नेहात्तन्मूलतृष्णादिना शानिवृत्तेः । तटुक्तम्- " यः पश्यत्यात्मानं तत्रास्याहमिति शाश्वतः स्नेहः । स्नेहात्सुखेषु तृष्यंति तृष्णा दोषांस्तिरस्कुरुते ॥ १ ॥ गुणदर्शी परितृप्यत्यात्मनि तत्साधनान्युपादत्ते । तेनात्मानिनिवेशो यावत्तावच्च संसारः ॥ २ ॥ इति ” । ननु यद्येवमात्मा न विद्यते, किं तु पूर्वापरक्षणत्रुटितानुसन्धानाः पूर्वहेतुप्रतिबन्ध ज्ञानक्षणा एव तथा तथोत्पद्यन्त इत्यन्युपगमस्तदा परमार्थतो न कश्चिपकार्योपकारकस्वभाव इति कथमुच्यते | भगवान् सुगतः करुणया सकलसत्त्वोपकाराय देशनां कृतवानिति, क्षणिकत्वमपि यद्येकान्तेन, तर्हि तत्त्ववेदी क्षणोऽन| न्तरं विनष्टः सन्न कदाचनाप्यहं नूयो जविष्यामीति जानानः किमर्थं मोदाय यतत इति ? अत्रोच्यते - जगवान् हि प्राचीनावस्थायां सकलमपि जगदुःखितं पश्यंस्तद्दिधीर्षया नैरात्म्यक्षणिकत्वादिकमवगचन्नपि तेषामुपकार्यसत्त्वानां निः शक्षणोत्पादनाय प्रयतते, ततो जातसकलजगत्साक्षात्कारः समुत्पन्न केवलज्ञानः पूर्वा हितकृपा विशेषसंस्कारात् कृतार्थोऽपि | देशनायां प्रवर्तते, अधिगततत्तात्पर्यार्थाश्च स्वसंत तिगत विशिष्टक्षणोत्पत्तये मुमुक्षवः प्रवर्तन्ते इति न किमप्यनुपपन्नमि - त्यादुः । तदखिलमज्ञान विलसितम् । आत्मानावे बन्धमोक्षाद्यैकाधिकरणत्वायोगात् । न च सन्तानापेक्षया समाधिः, | तस्यापि पानतिरेके एकत्वासिदेः, एकत्वे च प्रव्यस्यैव नामान्तरत्वात्, सजातीयक्षणप्रबन्धरूपे सन्ताने च न कारकव्यापार इति समीचीनं मुमुक्षुप्रवृत्त्युपपादनम् । अथाक्लिष्टक्षणेऽक्लिष्टक्षणत्वेनोपादानत्वमिति सजातीयक्षणप्रबन्धोपपत्तिः,
१ तृप्यति तुझ्या. २ नमान्तरंतत्

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364