Book Title: Nyayacharya Yashovijayji Krut Granthmala
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
ज्ञान
विन्ः
॥१४६॥
तथादर्शनादिति ध्येयम् । बार्हस्पत्यास्तु-रागादयो न लोनादिकर्मोदय निबन्धनाः, किं तु कफादिप्रकृतिहेतुकाः । तथाहि, कफहेतुको रागः, पित्तहेतुको पेषः, वातहेतुकश्च मोहः । कफादयश्च सदैव सन्निहिताः, शरीरस्य तदात्मकत्वात् , ततो न सार्वज्ञमूलवीतरागत्वसंलव इत्याहुः । तदयुक्तम् , रागादीनां व्यभिचारेण कफादिहेतुकत्वायोगात्, दृश्यते हि वातप्रकृतेरपि रागषौ, कफप्रकृतेरपि घेषमोहौ, पित्तप्रकृतेरपि मोहरागाविति । एकैकस्याः प्रकृतेः पृथक् सर्वदोषजननशक्त्युपगमे च सर्वेषां समरागादिमत्त्वप्रसंगात् । न च स्वस्वयोग्यक्रमिकरागादिदोषजनककफाद्यवान्तरपरिणतिविशेषस्य प्रतिप्राणि कट्पनान्नायं दोष इति वाच्यं, तदवान्तरजात्यावचिन्नहेतुगवेषणायामपि कर्मण्येव विश्रामात् । किं चान्यासजनितप्रसरत्वात्प्रतिसंख्याननिवर्तनीयत्वाच्च न कफादिहेतुकत्वं रागादीनाम् । एतेन शुक्रोपचयहेतुक एव रागो नान्यहेतुक इत्याद्यपि निरस्तम्, अत्यन्तस्त्रीसेवापरस्य दीणशुक्रस्यापि रागोजेकदर्शनात् , शुक्रोपचयस्य सर्वस्त्रीसाधारणाजिलाषजनकत्वेन कस्यचित् कस्यांचिदेव रागोजेक इत्यस्यानुपपत्तेश्च । न चासाधारण्ये रूपमेव हेतुः, तजहितायामपि कस्यचित्रागदर्शनात् । न च तत्रोपचार एव हेतुः, येनापि विमुक्तायां रागदर्शनात् । तस्मादन्यासदर्शनजनितोपचयपरिपाकं कमैव विचित्रस्वजावतया तदा तदा तत्तत्कारणापेदं तत्र तत्र रागादिहेतुरिति प्रतिपत्तव्यम् । एतेन पृथिव्यंबुजूयस्त्वे रागः, तेजोवायुनूयस्त्वे क्षेषः, जलवायुजूयस्त्वे मोह इत्यादयोऽपि प्रलापा निरस्ताः, तस्य विषयविशेषापक्षपातित्वादिति दिक् । कर्मनूतानां रागादीनां सम्यग्ज्ञान क्रियान्यां क्ष्यण वीतरागत्वं सर्वज्ञत्वं चानाविलमेव । शौचोदनीयास्तु-नैरात्म्यादिलावनैव
O
॥१४६॥

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364