________________
ज्ञान
विन्ः
॥१४६॥
तथादर्शनादिति ध्येयम् । बार्हस्पत्यास्तु-रागादयो न लोनादिकर्मोदय निबन्धनाः, किं तु कफादिप्रकृतिहेतुकाः । तथाहि, कफहेतुको रागः, पित्तहेतुको पेषः, वातहेतुकश्च मोहः । कफादयश्च सदैव सन्निहिताः, शरीरस्य तदात्मकत्वात् , ततो न सार्वज्ञमूलवीतरागत्वसंलव इत्याहुः । तदयुक्तम् , रागादीनां व्यभिचारेण कफादिहेतुकत्वायोगात्, दृश्यते हि वातप्रकृतेरपि रागषौ, कफप्रकृतेरपि घेषमोहौ, पित्तप्रकृतेरपि मोहरागाविति । एकैकस्याः प्रकृतेः पृथक् सर्वदोषजननशक्त्युपगमे च सर्वेषां समरागादिमत्त्वप्रसंगात् । न च स्वस्वयोग्यक्रमिकरागादिदोषजनककफाद्यवान्तरपरिणतिविशेषस्य प्रतिप्राणि कट्पनान्नायं दोष इति वाच्यं, तदवान्तरजात्यावचिन्नहेतुगवेषणायामपि कर्मण्येव विश्रामात् । किं चान्यासजनितप्रसरत्वात्प्रतिसंख्याननिवर्तनीयत्वाच्च न कफादिहेतुकत्वं रागादीनाम् । एतेन शुक्रोपचयहेतुक एव रागो नान्यहेतुक इत्याद्यपि निरस्तम्, अत्यन्तस्त्रीसेवापरस्य दीणशुक्रस्यापि रागोजेकदर्शनात् , शुक्रोपचयस्य सर्वस्त्रीसाधारणाजिलाषजनकत्वेन कस्यचित् कस्यांचिदेव रागोजेक इत्यस्यानुपपत्तेश्च । न चासाधारण्ये रूपमेव हेतुः, तजहितायामपि कस्यचित्रागदर्शनात् । न च तत्रोपचार एव हेतुः, येनापि विमुक्तायां रागदर्शनात् । तस्मादन्यासदर्शनजनितोपचयपरिपाकं कमैव विचित्रस्वजावतया तदा तदा तत्तत्कारणापेदं तत्र तत्र रागादिहेतुरिति प्रतिपत्तव्यम् । एतेन पृथिव्यंबुजूयस्त्वे रागः, तेजोवायुनूयस्त्वे क्षेषः, जलवायुजूयस्त्वे मोह इत्यादयोऽपि प्रलापा निरस्ताः, तस्य विषयविशेषापक्षपातित्वादिति दिक् । कर्मनूतानां रागादीनां सम्यग्ज्ञान क्रियान्यां क्ष्यण वीतरागत्वं सर्वज्ञत्वं चानाविलमेव । शौचोदनीयास्तु-नैरात्म्यादिलावनैव
O
॥१४६॥