________________
प्रकारताकझाने पोडशपदार्थविषयकविलक्षणमानसझाने वा तत्त्वज्ञाननामधेये मनसः करणत्वं, चाकुपादिसामग्रीकाल इव लौकिकमानससामग्रीकालेऽपि तादृशतत्त्वज्ञानानुपपत्तेस्तत्त्वज्ञानाख्यमानसे तदितरमानससामग्र्याः प्रतिबन्धकत्वं, तत्त्वझानरूपमानससामग्र्याश्च प्रणिधानरूपविजातीयमनःसंयोगघटितत्वं कट्पनीयमित्यनन्तमप्रामाणिककट्पनागौरवम् । अस्माकं तु पुरितक्यमानं तत्र कारणमिति लाघवम् । अत एवेन्यज्ञानासाचिव्येन केवलमसहायमिति प्राञ्चो व्याचक्षते । स चावरणाख्यधरितदयोपि नावनातारतम्यात्तारतम्येनोपजायमानस्तदत्यन्तप्रकर्षादत्यन्तप्रकर्षमनुलवतीतिकिमनुपपन्नम् ।। तदाहाकलंकोऽपि-" दोषावरण्योहानिर्निःशेषास्त्यतिशायनात् । क्वचिद्यथा स्वहेतुन्यो बहिरन्तर्मलक्ष्य इति ॥१॥" न च निंबाद्यौषधोपयोगात्तरतमन्नावापचीयमानस्यापि श्लेष्मणो नात्यन्तिकक्ष्य इति व्यभिचारः, तत्र निंबाद्योषधोपयोगोत्कर्षनिष्ठाया एवापादयितुमशक्यत्वात् , तदुपयोगेऽपि श्लेष्मपुष्टिकारणानामपि तदेवासेवनात्, अन्यौषधोपयोगाधारस्यैव विनाशप्रसंगात् , चिकित्साशास्त्रं ह्युजिक्तधातुदोषसाम्यमुद्दिश्य प्रवर्तते, न तु तस्य निर्मूलनाशं, अन्यतरदोषात्यन्तक्ष्यस्य मरणाविनानावित्वादिति अष्टव्यम् । रागाद्यावरणापाये सर्वज्ञज्ञानं वैशद्यनाग्नवतीत्यत्र च न विवादो रजोनीहाराद्यावरणापाये वृक्षादिज्ञाने तथा दर्शनात् । न च रागादीनां कथमावरणत्वं, कुड्यादीनामेव पौनलिकानां तथात्वदर्शनादिति वाच्यम् , कुड्यादीनामपि प्रातिजादावनावारकत्वात् , ज्ञानविशेषे तेषामावरणत्ववच्चातीनिध्याने रागादीनामपि तथात्वमन्वयव्यतिरेकाच्यामेव सिधम् । रागाद्यपचये योगिनामतीन्जियानुनवसंजवात्पौलिकत्वमपि व्यकर्मानुगमेन तेषां नासिझम् । स्वविषयग्रहणक्षमस्य ज्ञानस्य तदग्राहकताया विशिष्टप्रत्ययसंवन्धपूर्वकत्वनियमात्पीतहत्पूरपुरुषज्ञाने
१ विशिष्टद्रव्यसंबन्ध.