SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ | रागादिक्लेशहानिहेतुः, नैरात्म्यावगतावेवात्मात्मीयानिनिवेशानावेन रागदेषोछेदात् संसारमूल निवृत्तिसंजवात्, आत्माव गतौ च तस्य नित्यत्वेन तत्र स्नेहात्तन्मूलतृष्णादिना शानिवृत्तेः । तटुक्तम्- " यः पश्यत्यात्मानं तत्रास्याहमिति शाश्वतः स्नेहः । स्नेहात्सुखेषु तृष्यंति तृष्णा दोषांस्तिरस्कुरुते ॥ १ ॥ गुणदर्शी परितृप्यत्यात्मनि तत्साधनान्युपादत्ते । तेनात्मानिनिवेशो यावत्तावच्च संसारः ॥ २ ॥ इति ” । ननु यद्येवमात्मा न विद्यते, किं तु पूर्वापरक्षणत्रुटितानुसन्धानाः पूर्वहेतुप्रतिबन्ध ज्ञानक्षणा एव तथा तथोत्पद्यन्त इत्यन्युपगमस्तदा परमार्थतो न कश्चिपकार्योपकारकस्वभाव इति कथमुच्यते | भगवान् सुगतः करुणया सकलसत्त्वोपकाराय देशनां कृतवानिति, क्षणिकत्वमपि यद्येकान्तेन, तर्हि तत्त्ववेदी क्षणोऽन| न्तरं विनष्टः सन्न कदाचनाप्यहं नूयो जविष्यामीति जानानः किमर्थं मोदाय यतत इति ? अत्रोच्यते - जगवान् हि प्राचीनावस्थायां सकलमपि जगदुःखितं पश्यंस्तद्दिधीर्षया नैरात्म्यक्षणिकत्वादिकमवगचन्नपि तेषामुपकार्यसत्त्वानां निः शक्षणोत्पादनाय प्रयतते, ततो जातसकलजगत्साक्षात्कारः समुत्पन्न केवलज्ञानः पूर्वा हितकृपा विशेषसंस्कारात् कृतार्थोऽपि | देशनायां प्रवर्तते, अधिगततत्तात्पर्यार्थाश्च स्वसंत तिगत विशिष्टक्षणोत्पत्तये मुमुक्षवः प्रवर्तन्ते इति न किमप्यनुपपन्नमि - त्यादुः । तदखिलमज्ञान विलसितम् । आत्मानावे बन्धमोक्षाद्यैकाधिकरणत्वायोगात् । न च सन्तानापेक्षया समाधिः, | तस्यापि पानतिरेके एकत्वासिदेः, एकत्वे च प्रव्यस्यैव नामान्तरत्वात्, सजातीयक्षणप्रबन्धरूपे सन्ताने च न कारकव्यापार इति समीचीनं मुमुक्षुप्रवृत्त्युपपादनम् । अथाक्लिष्टक्षणेऽक्लिष्टक्षणत्वेनोपादानत्वमिति सजातीयक्षणप्रबन्धोपपत्तिः, १ तृप्यति तुझ्या. २ नमान्तरंतत्
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy