________________
झान
बिन्ः
॥१४॥
बुद्धदेशितमार्गे तु तत्प्रयोजकत्वज्ञानादेव प्रवृत्तिरिति चेन्न, एकान्तवादेऽनेन रूपेण निमित्तत्वमनेन रूपेण चोपादानत्वमिति विनागस्यैव उर्वचत्वात् । अनिष्टक्षणेऽक्लिष्टक्षणत्वेनेवोपादानत्वे श्राद्याक्लिष्टक्षणस्यानुत्पत्तिप्रसंगादन्त्यक्विष्टक्षणसाधारणस्य हेतुतावदकस्य कट्पने च क्लिष्टक्षणजन्यतावच्छेदकेन सांकर्याजन्यजनकदाप्रबन्धकोटावेकैकदणप्रवेशपरित्यागयोविनिगमकानावाच्च । एतेनेतरव्यावृत्त्या शक्तिविशेषेण वा जनकत्वमित्यप्यपास्तम्। न चैतदनन्तरमहमुत्पन्नमेतस्य चाहं जनकमित्यवगन्नति दणरूपं ज्ञानमिति न नवन्मते कार्यकारणनावः, नापि तदवगमः, ततो याचितकममनमेतदेकसन्ततिपतितत्वादेकाधिकरणं वन्धमोदादिकमिति । एतेनोपादेयोपादानक्षणानां परस्परं वास्यवासकलावाऽत्तरोत्तरविशिष्टविशिष्टतर-| कणोत्पत्तेः मुक्तिसंचव इत्यप्यपास्तम् , युगपन्नाविनामेव तिलकुसुमादीनां वास्यवासकलावदर्शनात् । उक्तंच-"वास्यवासकयोश्चैवमसाहित्यान्न वासना । पूर्वक्षणैरनुत्पन्नो वास्यते नोत्तरक्षणे ॥१॥ इति" कहिपतशुभदाणैकसन्तानार्थितयैवमोदोपाये सौगतानां प्रवृत्तिः, तदथैव च सुगतदेशनेत्यन्युपगमे च तेषां मिथ्यादृष्टित्वं, तत्कल्पितमोक्षस्य च मिथ्यात्वं स्फुटमेव, अधिक लतायाम् । एतेनाखंमाघयानन्दैकरसब्रह्मज्ञानमेव केवलज्ञानं, तत एव चाविद्यानिवृत्तिरूपमोदाधिगम इति वेदान्तिमतमपि निरस्तम् , तादृशविषयाजावेन तज्ज्ञानस्य मिथ्यात्वात् , कीदृशं च ब्रह्मज्ञानमझाननिवर्तकमन्युपेयं देवानांप्रियेण, न केवलचैतन्यं, तस्य सर्वदा सत्त्वेनाविद्याया नित्यनिवृत्तिप्रसंगात्, ततश्च तन्मूलसंसारोपलब्ध्यसनवात्सर्वशास्त्रानारंजप्रसंगादनुनवविरोधाच्च, नापि वृत्तिरूपं, वृत्तेः सत्यत्वे तत्कारणान्तःकरणाविद्यादेरपि सत्त्वस्यावश्यकत्वेन तया तन्निवृत्तेरशक्यतया सर्ववेदान्तार्थविप्लवापत्तेः, मिथ्यात्वे च कथमज्ञाननिवर्तकता। न हि मिथ्याज्ञानमज्ञान निवर्तकं दृष्टम् , स्वप्रज्ञानस्यापि तत्त्वप्र
॥१५
॥