________________
संगात् । न च सत्यस्यैव चैतन्यस्य प्रमाणजन्यापरोक्षान्तःकरणवृत्त्यन्निव्यक्तस्याज्ञाननिवर्तकत्वावृत्तश्च कारणताववेदकत्वेन दमत्वादिवदन्यथासिघत्वेन कारणत्वानंगीकारात् , अवच्छेदकस्य कहिपतत्वेऽप्यवच्छेद्यस्य वास्तवत्वं न हि हन्यते, यज्जतत्वेन जातं तबुक्तिव्यमितिवत् , तार्किकैरप्याकाशस्य शब्दग्राहकत्वे कर्णशष्कुलीसंबन्धस्य कट्रिपतस्यैवावच्छेदकत्वांगीकारात् , संयोगमात्रस्य निरवयवे नजसि सर्वात्मना सत्त्वेनातिप्रसंजकत्वात् । मीमांसकैश्च कहिपतहस्वत्वदीर्घत्वादिसंसर्गावचिन्नानामेव वर्णानां यथार्थज्ञानजनकत्वोपगमाध्वनिधर्माणां ध्वनिगतत्वेनैव जानात् , वर्णानां च विनूनामानुपूर्वीविशेषाज्ञानादतिप्रसंगात् , वर्णनिष्ठत्वेन ह्रस्वत्वादिकटपनस्य तेपामावश्यकत्वात् , तदस्माकमपि कल्पितावच्छेदकोपगमे को दोष इति मधुसूदनतपस्विनोऽपि वचनं विचारसहं, मिथ्यादृग्दृष्टान्तस्य सम्यग्दृशा ग्रहणानौचित्यात्, नैयायिकमी
मांसोक्तस्थलेऽपि अनन्तधर्मात्मकैकवस्तुस्वीकारे कटिपतावच्छेदककृतविलंबनाया अप्रसरात्, विस्तरेणोपपादितं चैतत्समरातिवृत्तौ । न चोक्तरीत्या वृत्तेरवच्छेदकत्वमपि युक्तं, प्रतियोगितयाऽज्ञाननिवृत्तौ सामानाधिकरण्येन समानविशेष्यकसमान
प्रकारकवृत्तेरेव त्वन्मते हेतुत्वस्य युक्तत्वात् । अत एव स्वयमुक्तं तपस्विना सिझान्तबिन्दौ-दिविधमावरणं, एकमसत्त्वापादकमन्तःकरणावछिन्नसाक्षिनिष्ठं, अन्यदनानापादकं विषयावविन्नब्रह्मचैतन्यनिष्ठं, घटमहं जानामीत्युजयाववेदानुनवादाद्यं परोक्षापरोक्षसाधारणप्रमामात्रेण निवर्ततेऽनुमितेऽपि वह्नयादौ नास्तीति प्रतीत्यनुदयात् , दितीयं तु साक्षात्कारेणैव निवर्तते यदाश्रयं यदाकारं ज्ञानं तदाश्रयं तदाकारमझानं नाशयतीति नियमादित्यादि, तत्किमिदानी कुत्दामकुदः सद्य एव विस्मृतं? . येनोक्तवृत्तेरवछेदकत्वेनान्यथासिछिमाह, एवं हि घटादावपि दंमविशिष्टाकाशत्वेनैव हेतुतां वदतो