________________
ज्ञान
॥१४४॥
परिणतव्यविषयमपि मनःपर्यायज्ञानमन्युपगन्तव्यं स्यात्, चेष्टाहेतोरेव मनसस्तद्भाह्यत्वात । न च तेन दीन्द्रियादीनां समनस्कतापत्तिः, कपर्दिकासत्तया धनित्वस्येव, एकया गवा गोमत्त्वस्येव, सूक्ष्मेण मनसा समनस्कत्वस्यापादयितुमशक्यत्वात्, | तदिदमभिप्रेत्योक्तं निश्चयधात्रिंशिकायां महावादिना - "प्रार्थनाप्रतिघाताच्यां चेष्टन्ते पीन्द्रियादयः । मनःपर्याय विज्ञानं युक्तं तेषु न चान्यथा ॥ १ ॥” इति । न चैवं ज्ञानस्य पंचविधत्वविना गोछेदात्सूत्रापत्तिः, व्यवहारतश्चतुर्विधत्वेनोक्ताया अपि जाषाया निश्चयतो वैविध्यानिधानवन्नयविवेकेनोत्सूत्राभावादिति दिकू ।
सर्वविषयं केवलज्ञानम् । सर्वविषयत्वं च सामान्यधर्मानवचिन्ननिखिलधर्मप्रकारकत्वे सति निखिलधर्मिविषयत्वम् । प्रमेयवदिति ज्ञाने प्रमेयत्वेन निखिलधर्मप्रकारकेऽतिव्याप्तिवारणायानवैचिन्नान्तं, केवलदर्शनेऽतिव्याप्तिवारणाय सत्यन्तं, | विशेष्यभागस्तु पर्यायवाद्यनिमतप्रतीत्यसमुत्पाद रूपसन्तान विषयक निखिलधर्मप्रकारकज्ञाननिरासार्थः । वस्तुतो निखिल - | ज्ञेयाकारवत्त्वं केवलज्ञानत्वं । केवलदर्शनाच्युपगमे तु तत्र निखिल दृश्याकारवत्त्वमेव न तु निखिल शेयाकारवत्त्वमिति नातिव्याप्तिः । न च प्रतिस्वं केवलज्ञाने केवलज्ञानान्तरवृत्तिस्वप्राक्काल विनष्टवस्तुसंबन्धिवर्तमानत्वाद्याकाराजावादसंजयः, स्व| समानकालीन निखिलज्ञेयाकारवत्त्वस्य विवक्षणात् । न च तथापि केवलज्ञानग्राह्ये आद्यवृत्तित्वप्रकारकत्वावचिन्नविशेप्यताया द्वितीयक्षणे नाशो, द्वितीयक्षणवृत्तित्वप्रकारकत्वावचिन्न विशेष्यतायाश्चोत्पादः, इत्यमेव ग्राह्यसामान्यविशेष्यताधौव्यसंनेदेन केवलज्ञाने त्रैलक्षण्यमुपपादितमित्येकदा निखिलज्ञेयाकारवत्त्वासंभव एवेति शंकनीयम्, समानकालीनत्वस्य क्षणगर्भत्वे दोषाभावात्, अस्तु वा निखिलज्ञेयाकारसंक्रमयोग्यतावत्त्वमेव लक्षणं, प्रमाणं च तत्र ज्ञातत्वमत्यन्तोत्कर्षव
बिन्दुः
॥ १४४ ॥