Book Title: Nyayacharya Yashovijayji Krut Granthmala
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 310
________________ ज्ञान बिन्ः ॥१३॥ काणफलव्याप्यतयैव श्रुतस्य लोकोत्तरप्रामाण्यव्यवस्थितेर्वाक्येऽपि क्रमिकतावद्वोधजनके तथात्वव्युत्पत्तिप्रतिसंधानवति व्युत्पत्तिमति पुरुषे न विरम्यव्यापारादिदूषणावकाशः।सोऽयमिषोरिव दीर्घदीर्घतरो व्यापारो, यत्परः शब्दः स शब्दार्थ इति नयाश्रयणात् । एतेन न हिंस्यादित्यादिनिषेधविधौ विशेष विधिवाधपर्यालोचनयाऽनुमितो व्यापकतानवच्छेदकेनापि विशेपरूपेण व्यापकस्येव, शाब्दबोधे तत्तहिहितेतरहिंसात्वेन वृत्त्यनवच्छेदकरूपेणापि निषेध्यस्य प्रवेश इति निरस्तम् । उक्तबाधपालोचनस्य प्रकृतोपयोगान्तावेऽस्ममुक्तप्रकारस्यैव साम्राज्यात् , तदनन्तर्जावे च तस्य सामान्यवाक्यार्थबोधेन सह मिलनानावेन विशेषपर्यवसायकत्वासंजवात् । अव्यवहितविक्षामध्ये एकविशेषवाधप्रतिसन्धानमेव सामान्यवाक्यार्थस्य तदितरविशेषपर्यवसायकमिति कट्पनायां न दोप इति चेन्न, त्रिदणाननुगमात्, पटुसंस्कारस्य पंचपक्षणव्यवधानेsपि फलोत्पत्तेश्च, संस्कारपाटवस्यैवानुगतस्यानुसरणौचित्यात् , तच्च गृहीतेऽर्थे मतिश्रुतसाधारण विचारणोपयोग एवोपयुज्यते, अत एव सामान्यनिषेधशाने विरोधसंबन्धेन विशेषविधिस्मृतावपि विचारण्या तदितरविशेषपर्यवसानम् । अपि च 'स्वर्गकामो यजेत' इत्यत्र यथा परेषां प्रथम स्वर्गत्वसामानाधिकरण्येनैव यागकार्यताग्रहोऽनन्तरं चानुगतानतिप्रसक्तकार्यगतजातिविशेषकरूपनं, तथा प्रकृतेऽपि हिंसात्वसामानाधिकरण्येन पापजनकत्वबोधेऽनन्तरं तजतहेतुतावचेदकानुगतानतिप्रसक्तरूपं कटपने किं वाधक, सर्वशब्दबलेन हिंसासामान्योपस्थितावपि ततहेतुस्वरूपानुवन्धकृतविशेषस्य कट्प-10 v नीयत्वात् । सैव च कपना वाक्यार्थबोधात्मिकेति न तज्छेदः । किं च पदार्थबोधासिासामान्येऽनिष्टसाधनत्वग्रहे आहारविहारादिक्रियास्वनिष्टसाधनत्वव्याप्यहिंसात्वारोपेणानिष्टसाधनत्वारोपलक्षणतर्कात्मक एव वाक्यार्थबोधः, तस्य युक्त्या ॥१३ ॥ ।

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364