Book Title: Nyayacharya Yashovijayji Krut Granthmala
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
त्ववग्रहमात्रमेव मतिज्ञानं प्रसज्येत, धारणोत्तरं स्वसमानाकारश्रुतावश्यंजावकपनं तु स्ववासनामात्र विनितं, शब्दसंसटाया मतेरेव श्रुतत्वपरित्नाषणं तु न पृथगुपयोगव्यापकमिति शाब्दझानमेव श्रुतझानं, न त्वपरोक्षमिन्छियजन्यमपीत्याहुः। नव्यास्तु श्रुतोपयोगो मत्युपयोगान्न पृथक्, मत्युपयोगेनैव तत्कार्योपपत्ती तत्पार्थक्यकट्पनाया व्यर्थत्वात् । अत एव शब्दजन्यसामान्यज्ञानोत्तरं विशेष जिज्ञासायां तन्मूलकमत्यपायांशप्रवृत्तौ न पृथगवग्रहकट्पनागौरवं, शाब्दसामान्यज्ञानस्यैव | तत्रावग्रहत्वात् । न च शाब्देऽशाब्दस्य तत्सामग्र्या वा प्रतिबन्धकत्वध्रौव्यान्नेयं कट्पना युक्तेति वाच्यं, अशाब्दत्वस्य प्रतिवध्यतावच्छेदकत्वे प्रतियोगिकोटौ शब्दमूलमतिझानस्यापि प्रवेशात्, अन्यथा श्रुतान्यन्तरीनूतमतिज्ञानोदप्रसंगात् । किं च शाब्दज्ञानरूपश्रुतस्यावग्रहादिक्रमवतो मतिज्ञानान्निन्नत्वोपगमेऽनुमानस्मृतितर्कप्रत्यनिशानादीनामपि तयात्वं स्यादित्यतिप्रसंगः, सांव्यवहारिकप्रत्यक्षत्वानावस्यापि तेषु तुल्यत्वात् । यदि चावग्रहादिनेदाः सांव्यवहारिकप्रत्यक्षरूपस्यैव मतिझानस्य सूत्रे प्रोक्ता, अनुमानादिकं तु परोक्ष्मतिझानमर्थतः सिमितीप्यते, तर्हि श्रुतशब्दव्यपदेश्यं शाब्दज्ञानमपि परोदमतिज्ञानमेवांगीक्रियतां, किमर्धजरतीयन्यायाश्रयणेन । मत्या जानामि श्रुत्वा जानामीत्यनुलव एवानयोजेदोपपादक इति चेन्न, अनुमाय जानामि स्मृत्वा जानामीत्यनुलवेनानुमानस्मृत्यादीनामपि दापत्तेः। अनुमितित्वादिकं मतित्वव्याप्यमेवेति यदीप्यते, शाब्दत्वमपि किं न तथा ? । मत्या न जानामीति प्रतीतिस्तत्र बाधिकेति चेन्न वैशेषिकाणां नानुमिनोमीति प्रतीतेरिव शाब्दे तस्याविशेषविषयत्वात् । न च निसगाधिगमसम्यक्त्वरूपकार्यनेदान्मतिश्रुतज्ञानरूपकारणलेद इत्यपि सांप्रतं, तत्र निसर्गपदेन स्वत्तावस्यैव ग्रहणात्। यघाचकः-"शिवागमोपदेशश्रवणान्येकाथिकान्यधिगमस्य । एकार्थः

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364