Book Title: Natyadarpan Hindi
Author(s): Ramchandra Gunchandra, Dashrath Oza, Satyadev Chaudhary
Publisher: Hindi Madhyam Karyanvay Nideshalay Delhi
View full book text ________________
प्रथमो विवेकः नीरसानुचितं सूख्यं, प्रयोज्यं तद्विपर्ययः । ऊह्यं तदविनाभूतम्, उपेक्ष्यं तु जुगुप्सितम् ॥ ११ ।। प्रकाशं ज्ञाप्यमन्येषां, स्वगतं स्वहदि स्थितम् । परावृत्य रहस्यास्याऽन्यस्मै तबपवारितम् ॥ १२ ॥ त्रिपताकान्तरोऽन्येन, जल्पो यस्तज्जनाम्निकम् । पाकाशोक्तिः स्वयम्प्रश्न-प्रत्युसरमपात्रकम् ॥ १३ ॥ स्वल्पपचं लघुगचं, श्लिष्टावान्तरवस्तुकम् । सिन्धु-सूर्येन्दु-कालादि-वर्णनाधिक्यवजितम् ॥ १४ ॥ एकाङ्गिरसमन्याङ्गम्, अद्भुतान्तं रसोमिभिः । पलचितमलङ्कार-कथा-मरगलवू-रसम् ॥ १५ ॥ उक्तत्वाद् वक्ष्यमाणत्वाद्, भूयःकार्याद् यदुच्यते । तत् कर्णे श्रावयेद् येन, न याति पुनरुक्तताम् ।। १६ ।। गोपुच्छ-केश-कल्पानि, नाट्यवस्तूनि कल्पयेत् । उदात्ता रखका भावाः, स्थापनीया: पुरः पुरः ।। १७ ॥ प्रयुक्तं च विरुद्धं च, नायकस्य रसस्य वा । वृत्तं यत् तत् परित्याज्यं, प्रकल्प्यमयवाऽन्यथा ॥ १८ ॥ अवस्थायाः समाप्तिर्वा, छेदो वा कार्ययोगतः । मङ्कः सबिन्दु श्यार्थः, चतुर्यामो मुहूर्ततः ।। १६॥ आवश्यकाविरोध्यर्थः, स्वल्पपात्रः सनिगमः। पश्चसयोऽपकर्षेण, दशसङ्ग्यः प्रकर्षतः ।। २० ॥ मभिधातः प्रषावस्य, नेतुर्ग्रथ्यो न कुत्रचित् । बन्धः पलायनं सन्धिः, योज्यो वा फललिप्सया ॥ २१ ॥ दूराध्वयानं पूरोषः, राज्य-देशादि-विप्लवः । रतं मृत्युः समीकादि, वयं विष्कम्भकादिभिः ॥ २२ ॥ मकानहस्य वृत्तस्य, त्रिकालस्यानुरञ्जिना। सङ्क्षिप्य संस्कृतेनोक्तिः, मादी मध्यमैजनैः ॥ २३ ॥ शुद्धो विष्कम्भकस्तत्र, सङ्गीणों नीच-मध्यमः। मसन्धायकः शक्य-सन्धानातीतकालवान् ॥ २४ ॥ एवं प्रवेशको नीचः, परार्थः प्राकृतादिना । एतो प्रभूतकार्यत्वात, नाटकादिचतुष्टये ॥ २५ ॥ अलास्यमन्तपात्रेण, बिनाङ्कमुखयोजनम् । वस्तुना सूचनं चूला, पात्रनेपथ्यसंस्थितः ॥२६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554