Book Title: Natyadarpan Hindi
Author(s): Ramchandra Gunchandra, Dashrath Oza, Satyadev Chaudhary
Publisher: Hindi Madhyam Karyanvay Nideshalay Delhi
View full book text ________________
प्रथमो विवेका
सोऽङ्कावतारो यत्-पात्रः, प्रङ्कान्तरमसूचनम् । प्राची सूच्ये बहावन्ये, क्रमादल्पे तरे तमे ।। २७ ।। बीजं पताका प्रकरी, बिन्दुः कार्य यथारुचि । फलस्य हेतवः पञ्च, चेतनाचेतनात्मकाः ॥ २८ ॥ स्तोकोद्दिष्टः फलप्रान्तः, हेतुर्बीज प्ररोहणात् । पाविमर्श पताका चेत्, चेतनः स परार्थकृत् ॥ २९॥ चिन्तितापिरप्राप्तिः, वृत्त यत्रोपकारिणी। पताकास्थानकं तत् तु, चतुर्धा मण्डनं क्वचित् ॥ ३०॥ सहसेष्टार्थलाभश्च, श्लिष्टसातिशया च वाग् । पर्था चाप्रकटे श्लिष्ट-स्पष्टप्रत्यभिधाऽपि च ॥ ३१॥ प्रकरी चेत् क्वचिद् भावी, चेतनोऽन्यप्रयोजनः। हेतोक्छेदेऽनुसन्धानं, बहूनां बिन्दुराफलात् ॥ ३२ ॥ साध्ये बीजसहकारी, कार्य कार्यस्तु मुख्यता। पताकायाः प्रधानत्वेऽनुसन्धिः सूचनाऽऽदिभिः ॥ ३३ ॥ भारम्भ-यत्न-प्राप्त्याशा-नियताप्ति-फलागमाः । नेतुत्ते प्रधाने स्युः, पश्चावस्था ध्रुवं क्रमात् ॥ ३४ ॥ फलायौत्सुक्यमारम्भः, प्रयत्नो व्यापूतो त्वरा। फलसम्भावना किश्चित्, प्राप्त्याशा हेतुमात्रतः ॥ ३५ ॥ नियताप्तिरुपायानां, साकल्यात् कार्यनिर्णयः । साक्षादिष्टार्थसम्भूतिः, नायकस्य फलागमः ॥ ३६ ॥ मुख प्रतिमुखं गर्भामर्श-निर्वहणान्यमी । सन्धयो मुख्यवृत्तांशा;, पञ्चावस्थाऽनुगा: क्रमात् ॥३७॥ मुखं प्रधानवृत्तांशः, बीजोत्पत्ति-रसाश्रयः । प्रतिमुखं कियल्लक्ष्य-बीजोदाट-समन्वितः ॥३८॥ बीजस्योन्मुख्यवान गर्भः, लाभालाम-गवेषणः । उद्भिन्नसाध्य-विघ्नात्मा, विमर्शी व्यसनादिभिः ॥ ३९ ॥ सबीजविकृतावस्था: नाना-भावा मुखादयः। फलसंयोगिनो यस्मिन्, असो निर्वहणो ध्र वम् ॥ ४० ॥ उपक्षेपः परिकरः, परिन्यासः समाहितिः। उद्भ दः करणं चतान्यत्रैवाथ विलोभनम् ॥४१॥ भेदनं प्रापणं युक्ति, विधान परिभावना । सर्वसन्धिध्वमूनि स्युः, द्वादशाचं मुखं ध्रुवम् ॥४२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554