________________
श्रीमलयगिरीया नन्दीवृत्तिः ॥ १३ ॥
पजायते, तीत्रदुःखवेदनाभिभववशाच्च प्राग्बद्धं पापकर्मोदीर्योदीर्यानुभवन्तः प्रतिक्षिपन्ति स्यादेतत्-किमत्र प्रमाणं यत्ते व्यापाद्यमानाः तीव्रवेदनाऽनुभवतः प्राग्बद्धं पापकर्मोदीर्योदीर्य परिक्षिपन्ति न पुनरार्त्तरौद्रध्यानोपगमतः प्रभूततरं पापमावर्जयन्तीति ?, उच्यते, युष्मत्सिद्धान्तानुगतमेव नारकस्वरूपोपदर्शकं वचः, तथाहि - नारका निरन्तरं परमाधार्मिकसुरैः ताडनभेदनोत्कर्त्तनशूल्यारोपणाद्यनेकप्रकारमुपहन्यमानाः परमाधार्मिकसुराभावे परस्परोदीरिततीत्रवेदना रौद्रध्यानोपगता अपि प्राग्बद्धमेव कर्म क्षपयन्ति, नापूर्व पापमधिकतरमुपार्जयन्ति, नारकायुर्बन्धासम्भवात्, तदसम्भवश्चानन्तरं भूयः तत्रैवोत्पादाभावाद् । अपि च-यत एव रौद्रध्यानोपगता अत एव तेषां प्रभूततरप्राबद्धपापकर्म परिक्षयः, तीव्रसक्लेशभावात्, न खलु तीत्रसङ्क्लेशाभावे परमाधार्मिकसुरा अपि तेषां कर्म्म क्षपयितुं शक्ताः, ततो रौद्रादिध्यानमुपजनयन्तोऽपि व्यापादका व्यापाद्यानामुपकारका एव, इत्थं च व्यापादनतः तेषामुपकारसम्भवे ये तयापादनमुपेक्षन्ते प्रतिषेधन्ति वा ते महापापकारिणः, ये पुनः प्रागुपात्तपुण्यकर्मोदयवशतः सुखासिकामनुभवन्तोऽवतिष्ठन्ते न ते व्यापादनीयाः, तेषां व्यापादने सुखानुभववियोगभावतोऽपकारसम्भवात् न च परहितनिरताः । परापकृतये संरम्भमातन्वन्ति, तदेतदयुक्तम्, परोपकारो हि स एव सुधिया विधेयो य आत्मन उपकारको, न च परेषां व्यापादनेनोपकृतिकरणे भवतः कमप्युपकारमीक्षामहे, तथाहि — परेषां व्यापादने को भवतः उपकारः १, किं | पुण्यवन्धः उत कर्मक्षयः ?, तत्र न तावत्पुण्यबन्धः परेषामन्तरायकरणात्, ते हि परे यदि भवता न व्यापाद्ये
For Personal & Private Use Only
Jain Education International
संसारमोचकानां
मतं.
१५
२०
॥ १३ ॥
२६
www.jainelibrary.org