Book Title: Nandishen Muni Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 9
________________ विषण कर्मफललब्धिविना कदापि ते मरणं न भविष्यति. ततोऽसौ मुनिरेकाक्येव. तीव्रतपासमाराधन परोऽन्यदाऽनाभोगात्पारणकदिने कस्मिंश्चिन्नगरे कस्याश्चिद्वेश्याया गृहे आहारार्थ प्रविष्टो धर्मलाभचरित्रं मुच्चचार. तत् श्रुत्वा सहास्या सा वेश्यापि तं मुनिप्रत्याह, भो मुने! धनभोगार्थिन्या मम धर्मलाभेन // 8 // [किमपि प्रयोजनं नास्ति, अहं तु सर्वदा शर्मलाभदं धनमेवेच्छामि. तत् श्रुत्वा मुनिर्दभ्यो, अहो ! यौवन- 2 मदंगर्वितेयं वेश्या अकिंचनस्य मम हास्यं करोति ! यतः सा जानाति, यजैनमुनयों नित्यं निर्धना एव वर्तते. अथ दर्शयाम्यस्या अपि मे प्रभावं, इत्यहंकाराभिभूतोऽसौ मुनि विभावस्याप्यवश्यंभावित्वेन यावत्तस्या द्वाराग्नीवात्तृणमाचकर्ष, तावत्तस्य तपोलब्धिप्रभावाद् द्वादशकोटिमितं सुवर्णद्रव्यं / तत्र गगनांगणान्न्यपतत्. ततः स मुनिस्तां वेश्यामुवाच, भो सुंदरि! अनेन द्रव्यसंचयेन त्वदभिः / मतः शर्मलाभस्तेऽस्तु, इत्युक्त्वास नंदिषेणो मुनिर्यावत्ततोऽये गंतुंप्रवर्तते, तावत्तयां चतुरया वेश्यया की तस्य पटांचल विधृत्य प्रोक्तं, हे स्वाभिन् ! इदं कमलकोमलं शरीरं दुष्करतपोऽग्निना त्वं कथं शोषयसे ? अथ त्वं मद्गृहे स्थितो मया सह नानाविधभोगान् भुंक्ष्व ? त्वयाहमेतेन धनंदानेन क्रीतास्मि, VEEEEEEEE VEGETATA CALAVE P.P.AC.Gunratnasuri M.S Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19