Book Title: Nandishen Muni Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________ // 11 // नंदिषेण ___अथ द्वितीय नंदिषेणमुनिचरित्रं प्रारभ्यते-भूभूषणे मगधाख्ये देशे नंदिग्रामाभिध एको ग्रामोऽस्ति. तत्र ग्रामे सोमिलाख्य एको द्विजो वसतिस्म, सोऽतीवदारियाभिभूतो भिक्षायाचनेन चरित्रं निजनिर्वाहं करोतिस्म. तस्य सोमिलाख्या पत्नी बभूव. तयोर्नदिषेणाभिधो नंदनोऽभूत् . अथ तं // 11 // नंदिषेणं तदभाग्यवशात् बाल्ये एव मुक्त्वा तस्य मातापितरौ पंचत्वं प्राप्ती. अथ दुर्भगकोंदयेनं मस्तक केशादारभ्य चरणनखपर्यंतं तमत्यंतं कुरूपं दृष्ट्वा स्वजना अपि तत्यजुः. एवं निराधारो दुःखांभोधौ निमग्नः स मामांतरे निजमातुलगृहे गत्वा पशु समूहाथं चारिपानीयानयनादि सर्वमपि | गृहकार्य करोतिस्म. एवं तं निजभागिनेयं विनयपरं गृहकार्य कुर्वतं च विज्ञाय संतुष्टो मातुलस्तं जगौ, 2 हे वत्स! त्वं खेदं मा कुरुष्व ? मम सप्त कन्यकाः संति, ताभ्य एकां कन्यां त्वया सह परिणाययिष्यामि. / इति मातुलवचनं निशम्य स कुरुपो नंदिषेणो हृष्टः सन् सोत्साहं तस्य गृहकर्माणि सविशेष के K करोतिस्म. एवं क्रमेण मातुलं संतोषयन् स योवनं प्राप्तः. . अथ तस्य नंदिषेणस्य परिणायन स्वरूप गर्भितं मातापित्रोश्चेष्टितं विज्ञाय प्रथम कन्या नि everACE CEVA LAVAVAV PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19