Book Title: Nandishen Muni Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________ मूल जातोपरि समारुह्य झंपापातं चिकीर्षुः सः कायोत्सर्गस्थमुनिनैकेन निवारितः.. तदा स नंदिषेणस्तं मुनिं प्रणम्य निजकर्मस्वरूपं जगो, यतः-रोगिणां सुहृदो वैद्याः / प्रभूणां चाटुकारिणः // सुनवों . चरित्रं दुःखदग्धानां / गणिकाऽक्षीणसंपदः // 1 // ततः स मुनिर्निजज्ञानबलेन तदीयहृदयभावमुद्भाव्य // 13 // तस्याश्वासनकृते जगौ, भो भद्र! एवमात्मघातकरणेन न कोऽपि स्वपूर्वकृतकर्मभ्यो मुक्तो भवति, प्रत्युत आर्तध्यानेन मृत्वा दुर्गतिं याति, यतः-कृतकर्मक्षयो नास्ति / कल्पकोटिशतैरपि // अवश्यकमेव भोक्तव्यं / कृतं कर्म शुभाशुभं // 1 // तत् श्रुत्वा कृतांजलिः स नंदिषेणा मनिं जगौ, हे भगवन् ! तर्हि यथाहं सुखलेशं प्राप्नुयां, तथा कमप्युपायं मह्यं कृपां विधाय यूयं दर्शयध्वं ? अथ कत योग्य विज्ञाय मुनिर्जगो, हे भद्र! श्रीवीतरागोदितधर्मकार्यकरणेन निजदुष्टकर्माणि भेदयित्वा जनोऽत्र परत्र च सुखपात्रं भवति. तस्मात्त्वं यावज्जीवं दीक्षाग्रहणेन शुद्धं धर्म कुरु? येन भवांतरे की त्वं सुखभाग् भविष्यसि. इत्यादिमुनिप्रोक्तधर्मोपदेशात्प्रतिबोधं प्राप्तः स नंदिषेणो वैराग्यवासितहृदयो तस्य मुनेः पावें दीक्षां जयाह. अथ स नंदिषेणो महामुनिर्विनयपूर्वकं धर्मशास्त्राणि पठन् क्रमेणा GENEGEGEGY SONGGEOGGEEGNER P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 12 13 14 15 16 17 18 19