Page #1
--------------------------------------------------------------------------
________________ . Serving Jinshasan in 073163 gyanmandir@kobatirth.org ... p_9119 13:163 permiss980 .: // श्रीजिनायनमः // . * // श्रीनंदिषेणमुनिचरित्रम् . (कर्ता श्री शुभशीलगणी) गद्यबद्धं. छपावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज ( जामनगरवाळा ) - ocence कीमत रु.०-८-. श्रीजैन भास्करोदय प्रेसमां छाप्यु-जामनगर. Chusbjpmeneuje મુનિશ્રી નીતિવિજયજી શોને બડા वा मसिद्ध करनार, ARO सने 1929 . सा. me2020088ea8aelelela220
Page #2
--------------------------------------------------------------------------
________________ नंदिषेण चरित्रं // श्री जिनाय नमः // / / श्रीचारित्रविजय गुरुभ्यो नमः // // अथ श्रीनांदेषेणमुनिचरित्रं प्रारभ्यते // ... (कर्ता-श्रीशुभशीलगणी) छपावी पसिद्ध करनार पंडित श्रावक होरालाल हंसराज (जामनगरवाळा) कुर्वन्नुग्रं तपो नित्यं / दुष्ट कर्म विनिर्मितं // जीवो भिनत्ति तत्कालं। नंदिषेणमुनीशवत् // 1 // तथाहि-स्वर्गसंनिभं श्रीपुराख्यं पुरमासीत् , तत्र मुखप्रियाख्यो द्विज एको वसतिस्म. अथैकदा निजोदरपुरणाय भिक्षार्थमेको भीमाख्यो दरिद्रपुरुषस्तस्य गृहे समाययो. तदा स द्विजस्तं भीमं जगौ.क चेत्त्वं दासत्वमंगीकृत्य मदीयगृहे तिष्टसि, तदा ते नित्यं भोजनवस्त्रादि दास्यामि. भीमेनोक्तं भो. द्विजोत्तम! तव दासत्वमहमंगीकरोमि, परं राद्धान्नशेषं सर्वदा मह्यमेव देयं, यथा स्वेच्छयैवाहं तस्य 2 PP.AC.Gunratnasuri M.S Jun Gun Aaradhak Trust
Page #3
--------------------------------------------------------------------------
________________ मr. नंदिषेण 2 राद्धान्नशेषस्योपयोगं करोमि. ततो द्विजेनापि तत्प्रतिपन्नं. अथ स भीमः शुद्धभावेन तस्य द्विजस्य 2 दास्यं कुर्वन् स्वाजीविका निर्वहति, द्विजार्पितं राधान्नशेषं च स नित्यं तपस्व्यादिसाधुभ्यः प्रयच्छति. 2 चरित्रं एवमुपार्जितपुण्यपाथेयः स भीमः कियत्कालानंतरं मृत्वा देवलोके देवो बभूव. तत्र च दिव्यसुखान्य-12 // 2 // नुभूयायुःक्षये ततश्च्युत्वा मगधदेशे राजगृहे नगरे श्रेणिकाख्यस्य क्षोणीभृतो नंदिषेणाभिधः पुत्रो जातः. स मुखप्रियद्विजश्च मृत्वा भूरिषु भवेषु भ्रांत्वा वनमध्ये गजयूथे कस्याश्चित् करिण्या उदरेऽवातरत्. क्रमेण तया करिण्या प्रसूतः स कलभो यौवनं प्राप्तो व्यचिंतयत्, अथात्र यूथे मदन्यः करी यूथनायको माभूदिति विचिंत्य यूथपतीभृतः स युवा करी करिणीभिः प्रसूतान् सर्वानपि गजकलभान् 2 | जन्मसमये एव मारयामास, करिणीश्च प्रसूता रक्षयामास. अथ तस्मिन् यूथे स्थितानां करिणीनां 2 मध्यादेका दक्षा गर्भिणी करिणी दथ्यौ, यदेषो दुष्टो यूथाधिपतिर्जातमात्राण्येव सर्वासां करिणीनामपत्यानि मारयति, अहं चाधुना गर्भिण्यस्मि, मदोयमनसि च महानुत्साहो वर्तते, तन्नूनं मम गजरूपः 2 कलभो भविष्यति, सोऽपि चारिसंहारकर्ता भविष्यति, ततो जातमात्र एवायं कलभोऽन्यत्र मुक्त्वा / CECAFA Jun Gun Aaradtak Trust P.P.AC.GunratnasuriM.S.
Page #4
--------------------------------------------------------------------------
________________ चरित्रं // 3 // // 3 // नंदिषेण 12 मया त्रातव्यः. इति ध्यात्वा सा दक्षा करिणी निजापत्यरक्षणार्थं मायया वातरोगग्रस्तीभृय खंजीभूत चरणेव मंदमंदं संचरंती यूथात्पश्चात् पतति. अहो! पशूनामपि निजापत्येषु महान् मोहो भवति. यतः-आदाय मांसमखिलं स्तनवर्जमंगान्मां मुंच वायुरिक यामि कुरु प्रसादं // अद्यापि शस्यकवल-2 ग्रहणाऽनभिज्ञा / मन्मार्गवीक्षणपराः शिशवो मदीयाः // 1 // अथ स दुष्टो यूथाधिपतिर्दध्यौ, अस्याः / | करिण्या अन्यः करी भोक्ता मा भवतु, इति ध्यात्वा सोऽपि तस्याः पश्चान्मंद मंदं संचरंस्तामेकाकिनी न मुंचति. सा दक्षा करिणी तुप्रतिदिनमधिकाधिकं मंद मंदं संचरति. तदा स करी चाप्युद्विग्नोऽन्य- 2 वेगवतीकरिणीनां रक्षणार्थं तां करिणीं विमुच्य ताभिरन्यकरिणीभिरेव सममग्रेऽग्रे संचरति. सा क-2 करिण्यपि तस्य विश्वासोत्पादनार्थ दिनद्वित्रयांतरे निजपत्युस्तस्य यूथनाथस्य मिलति. तदा प्राप्तविश्वासः बस यूथपतिरिति दध्यौ, नूनमियं वराकी करिणी वातरोगाभिभूतास्ति, तथापि सा प्रेमपाशबद्धा मदीयो पांतं न मुंचति. एवं जातविभंभे यूथनाथे दूरस्थे कदाचित् स्वप्रसवसमयं विज्ञाय सा करिणी मोलिधृततॄणपूला निकटस्थे तापसाश्रमे ययो. अथ विनयनम्रीभूतां तां शांतखभावां करिणीं शरणार्थि- 2 NEFES KEEGGERE P.P.AC.GunratnasuriM.S. Jun Gun Aaradhak Trust
Page #5
--------------------------------------------------------------------------
________________ ल 4 // नदियणनीमिव मत्वा ते तापसाः प्रोचुः, भो पुत्रि! त्वं सुखेनैवात्र तिष्ट? इह ते कुतोऽपि भयं नास्ति. एवं 12 तैस्तापसैराश्वासिता सा हस्तिनी तत्र स्थिता तस्मिन्नेव तापसाश्रमे शुभलक्षणोपेतं गजमेकं प्रसूतेस्म. 2 चरित्रं 2 ततस्तं निजापत्यं तत्रैव तापसाश्रमे मुक्त्वा सा मंदमंदं संचरंती निजयूथपतिपावें गता. ततोंतसंतरा 2 // 4 // | सा तृणचरणमिषेण संचरंती प्रच्छन्नं तत्र तापसाश्रमे समागत्य तं निजकलभं स्तन्यपानं कारयति. 2 तापसा अपि तं कलभं परमानंदेन श्यामाकग्रासदानादिना पोषयंति. ऐवं क्रमेण वृद्धि प्राप्तः सक कलभोऽपि तापसबालैः सह निजां मनोहरां शंडां लालयन नानाविधक्रीडां करोति. तापसबालाश्चक सरस्या जलभृतकलशानानोयाश्रमद्रुमान् सिंचंति, तैः सह स कलभोऽपि सरसीं गत्वा निजशुंडायां [क जलं भृत्वा तानाश्रमद्रुमान् सिंचति. ततस्तैस्तापसैस्तस्य कलभस्य सेचनक इति नाम विहितं. एवं स कलभो नानाविधक्रीडां कुर्वन् तापसबालानां परमानंदपात्रं बभूव. क्रमेण स तत्रैव यौवनं के प्राप्तोऽन्येयुनिजहृदये चिंतयामास, मदोयमात्राहं छलेन निजपतिं यूथनायकं वंचयित्वास्मिन्नाश्रमे यथा जनितस्तथा माऽपरापि हस्तिन्यत्रागत्य मम प्रतिस्पर्धिनमन्यगजं जनयतु, इति विचार्य मदोन्मत्तः / PP.AC.GunratnasuriM.S. Jun cu Aaradha Trust
Page #6
--------------------------------------------------------------------------
________________ चरित्रं रास करो निजाश्रयदायकानां तेषां तापसानामेवाश्रमं दुर्जनं इव बभंज. अहो! अयं मदोन्मत्तौ गंजो स्माभिर्लालितः पालितोऽपि कृतघ्न इवास्माकमेवाश्रमं विनाशयति, अतोऽस्य बंधनाथ कोऽज्युपायः कर्तुं युज्यते, इति विचिंत्य ते तापसा मिलित्वा श्रेणिकनृपपावें ययुः, कथयामासुश्च तस्य सेचन॥ 5 // गजस्य सर्वमपि स्वरूपं. तत् श्रुत्वा स श्रेणिकनृपोऽपि निजसैन्यं संनह्य विचक्षणाधोरणैर्युतस्तं ॐ हस्तिनं धर्तुं वने गतः. आधोरणाश्च ते तं गजं वशीकर्तुं छलबलादिविविधोपायांश्चक्रुः, परं स गेज स्तैर्वशीकर्तुं न शक्यते. तद् दृष्ट्वा श्रेणिकनृपो निजहृदये विषण्णोऽभूत्. एवं निजतातं विषण्णीभूतं / विलोक्य नंदिषेणकुमारः स्वयं पितुराज्ञया तं गजं वशीकर्तुमुपस्थितः. तं नंदिषेणकुमारं निजसन्मुखं / समायातं विलोक्योहापोहं कुर्वन् स गजो जातिस्मरणज्ञानं प्राप्तवान्. एवं जातजातिस्मृतिः स दंती निजपूर्वभवसंबंधिनं स्वामिनं विलोक्य निजौद्धत्यं परित्यज्य तत्रैव स्थिरीभूतस्तस्थौ. एवं निजवशीभूतं तं करिणं नंदिषेणो नोत्वाश्चर्यमग्नाय निजताताय श्रेणिकभूपाय समर्पयामास.ततस्तं सेचनकं गजेंद्र पुरे नीत्वा श्रेणिकनृपो महोत्सवपूर्वकं पट्टहस्तिनं चकार, नंदिषेणकुमारमपि सविशेषं / / P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #7
--------------------------------------------------------------------------
________________ और ग्रामाद्यर्पणात् प्रीणयामास. इतः कियदिनानंतरं श्रीमहावीरः प्रभुस्तत्पुरोद्याने समवसृतः. श्रेणिक- मल नृपनंदिषेणकुमारादिपुरलोकाश्च भगवद्वंदनार्थं समवसरणे समाययुः. सर्वेऽपि विधिना भगवंतं .. चरित्रं पादित्वा यथास्थानमुपविष्टाः. भगवतापि देशना प्रारब्धा, भो भो भव्यलोकाः! इहापारे संसारे मनु॥ 6 // [2 ष्यत्वं, क्षत्रियायुत्तमजातिः, ईक्ष्वाकायुत्तमं कुलं, शरीरारोग्यं, आयुःसंपत्तिः, लक्ष्मीलाभकृत्सुव्यापारः, का कि सर्वप्राणिदयामयो जैनधर्मः, सद्गुरुसंयोगः, धर्मशास्त्रश्रवणं, धर्मोपरिश्रद्धा, देशविरतेः सर्वविरतेर्वा | लाभः, एतेषां प्रातिः खलु दुर्लभैव. अतः पूर्वपुण्ययोगेन प्राप्तां पूर्वोक्तां सामग्री लब्ध्वा प्रमादमुत्सृज्य 2 भव्यलोकैर्मुक्तिप्राप्त्यर्थं संयमाराधनं विधेयं. एवं कर्णसुधाप्रवाहतुल्यां भगवद्देशनां निशम्य प्रबुद्धो / नंदिषेणकुमारः कृतांजलिः प्रभुमपृच्छत् , हे भगवन् ! अयं सेचनको गजो मह्यं कथं प्रीतिपरो बभूव ? | SECCEZAECENAS AVEC AVENGGALAKEELSE मारः कथंचिन्मातापितरावापृच्छय प्रभुपायें संयममार्ग मार्गयामास. तत् श्रुत्वा ज्ञानवता प्रभुणा P.P.AC.Gunratnasuri M.S. Jun Gan Aaradhak Trust
Page #8
--------------------------------------------------------------------------
________________ और मुत्सुको मा भव? एवं प्रभुणा स्वयं निवार्यमाणोऽपि स नंदिषेणो यावदीक्षाग्रहणायात्यंतमुत्सुको बभूव, तावदाकाशेऽपीति दिव्या वाण्यभवत् , भो नंदिषेण! अधुना त्वं दीक्षाग्रहणं मा कुरु ? अ-A चरित्रं द्यापि तव भोगफलं भूरि वर्तते. एवं शासनदेव्यापि निषिद्धः स नंदिषेण उत्सुकीभूय निजवीर्यबलेन / // 7 // दीक्षा जग्राह . अथैवं गृहीतदीक्षः स नदिषेणो महामुनिः षष्ठाष्टमादितीव्रतपःपरोऽविश्रमं विजहार. सूत्रार्थवाचनापरो गीतार्थीभूय द्वादशभावना भावयन्, द्वाविंशतिपरीषहांश्च सहमानो निजकर्माण्युन्मूलयितुमुद्यम करोतिस्म. भोगकर्मोदयादुद्भवंती तीव्रभोगेच्छां रोऽधुं स नंदिषेणो मुनिरातापना 2 कुर्वन्नानाविधोग्रतपांसि करोतिस्म. यतः-आयावयंति गिम्हेसु। हेमंतेसु उवाउडा // वासासु पडि संलीणा / संजया सुसमाहिया // 1 // चारित्रनिवारिणी सा शासनदेवता तु नित्यं तं महामुनिं / 10 सांसारिकभोगांभोधो पातयितुं समीहते. एवं देवीकृतानुकूलोपसगोंऽपि स मुनिर्निजचरणरक्षार्थमेकदा पर्वतं समारुह्य ततो झंपां दातुमुद्यतोऽभूत् . एवं स मुनिर्यावगिरेरग्रभागादधोझंपां करोति, तावत्तं 2 करे धृत्वा सा शासनदेवो चान्यत्र मुक्त्वोवाच, भो मुने! सांप्रतं त्वं मुधा मर्तुं कथं यतसे ? भोग SVECEVAVAAAAAESTRO PP.AC.Gunratnasun M.S. Jun Gun Aaradhak Trust
Page #9
--------------------------------------------------------------------------
________________ विषण कर्मफललब्धिविना कदापि ते मरणं न भविष्यति. ततोऽसौ मुनिरेकाक्येव. तीव्रतपासमाराधन परोऽन्यदाऽनाभोगात्पारणकदिने कस्मिंश्चिन्नगरे कस्याश्चिद्वेश्याया गृहे आहारार्थ प्रविष्टो धर्मलाभचरित्रं मुच्चचार. तत् श्रुत्वा सहास्या सा वेश्यापि तं मुनिप्रत्याह, भो मुने! धनभोगार्थिन्या मम धर्मलाभेन // 8 // [किमपि प्रयोजनं नास्ति, अहं तु सर्वदा शर्मलाभदं धनमेवेच्छामि. तत् श्रुत्वा मुनिर्दभ्यो, अहो ! यौवन- 2 मदंगर्वितेयं वेश्या अकिंचनस्य मम हास्यं करोति ! यतः सा जानाति, यजैनमुनयों नित्यं निर्धना एव वर्तते. अथ दर्शयाम्यस्या अपि मे प्रभावं, इत्यहंकाराभिभूतोऽसौ मुनि विभावस्याप्यवश्यंभावित्वेन यावत्तस्या द्वाराग्नीवात्तृणमाचकर्ष, तावत्तस्य तपोलब्धिप्रभावाद् द्वादशकोटिमितं सुवर्णद्रव्यं / तत्र गगनांगणान्न्यपतत्. ततः स मुनिस्तां वेश्यामुवाच, भो सुंदरि! अनेन द्रव्यसंचयेन त्वदभिः / मतः शर्मलाभस्तेऽस्तु, इत्युक्त्वास नंदिषेणो मुनिर्यावत्ततोऽये गंतुंप्रवर्तते, तावत्तयां चतुरया वेश्यया की तस्य पटांचल विधृत्य प्रोक्तं, हे स्वाभिन् ! इदं कमलकोमलं शरीरं दुष्करतपोऽग्निना त्वं कथं शोषयसे ? अथ त्वं मद्गृहे स्थितो मया सह नानाविधभोगान् भुंक्ष्व ? त्वयाहमेतेन धनंदानेन क्रीतास्मि, VEEEEEEEE VEGETATA CALAVE P.P.AC.Gunratnasuri M.S Jun Gun Aaradhak Trust
Page #10
--------------------------------------------------------------------------
________________ नंदिषेण कृतज्ञाहं कथमपि त्वां न मुंचामि, तथापि यदि मां तिरस्कृत्य त्वं यास्यसि, तदाहं ते आत्मघातं / विधाय स्त्रीहत्यापापं दास्यामि. इत्युक्त्वा सा दिव्यरूपलावण्योपेता यौवनारूढा वेश्या निजकटाक्षचरित्रं बाणैस्तस्य महातपखिनोऽपि नंदिषेणमुनेः संयमकवचं भित्वा बलान्निजकमलकोमले हस्ते तद्धस्तं "दृढं धृत्वा गृहमध्ये समानयत् : अथ स मुनिरपि वीरप्रभोः शासनदेव्याश्च वचनं संस्मृत्य निजभोग-2 कर्मफलं मत्वा तां वेश्यामंगीचकार. ततस्तत्रस्थः स नंदिषेणो मुनिरित्यभिग्रहं जग्राह, यन्मया प्रतिदिन दश दश नटविटादिपुरूषान् प्रतिबोध्य, दीक्षां च ग्राहयित्वैव भोक्तव्यं, अन्यथा न. एवं मुक्तमुनिलिंगः स नंदिषेणस्तेया कृतज्ञया वेश्यया सह नानाविधेद्रियविलासान् विलसन् प्रतिदिन च निजोपदेशलब्धिप्रभावादश दश जनान् प्रतिबोध्य दीक्षां ग्राहयामास. एवं च कुर्वतस्तस्य द्वादशः / / वत्सरी व्यतीता. अथैकदा तेन प्रतिबोधदानपूर्वकं नव पुरुषास्तु दीक्षा ग्राहिताः, दशमश्च मिलित एकः स्वर्णकारो बहुशः प्रतिबोधितोऽपि कथमपि प्रतिबोधं नामोति, प्रत्युत वदति च, भो नंदिषेण! यदि त्व मेवं विधां संसारासारतां जानासि, तर्हि त्वं कथमत्र वेश्यागृहे स्थितो नानाविधभोगान् / EGEVEGVEEVE PP.AC. GunratnasuriM.S. Jun Gun Aaradhak Trust
Page #11
--------------------------------------------------------------------------
________________ चरित्रं नंदिषेण विलससि? इतो भोजनवेलयां व्यतीतायां, वेश्यया द्वित्रिवार कृतायां रसवस्यामपिः शीतोभूतायां स स्वर्णकारः कथमपि न प्रबुद्धः तदा तया वेश्यया प्रोक, स्वामिन् ! भोजनावसरोऽपि व्यतीतः, अथ 2 त्वमुत्थाय भुंक्ष्व ? नंदिषेणः प्राह, हे प्रिये! अद्यायं दशतो धृष्ट स्वर्गकारः कथमपि प्रतिबोधन // 10 // प्राप्नोति, प्रतिज्ञायामपूर्णायां च कथमहं भोजनं करोमि ? तत् श्रुत्वा तदीपक्षीगभोगकर्मफलप्रेरित-2 कि येव वेश्ययापि प्रेमभृतहास्येन प्रोक्तं, तर्हि स्वामिन् ! अय दशमो भवानेव भवतु ? तयैवमुक्तः स कदिषेणो निजभोगकर्मफलं क्षीणं विज्ञाय तस्या एतद्वचोंगीकृत्यं पश्चात्तापपरया तया वेश्यया बहु निवार्यमाणोऽपि स्वकीयं पूर्वलिंगे गृहोत्वा ततो निःसृत्य गुरुपाद्येययो. तत्र च विधिपूर्वकं सम्यगालोकी चनां कृत्वा, पुनर्दीक्षां लात्वा, ती तपश्च तप्त्वा, कर्मक्षयं विधाय सनंदिषे गो महामुनिर्मुक्तिसुखं प्राप. 2 // इति श्री प्रथम नंदिषेणमुनिचरित्रं समाप्तं // श्रीरस्तु // PP.AC.GunratnasuriM.S. Jun Gun Aaradhak Trust
Page #12
--------------------------------------------------------------------------
________________ // 11 // नंदिषेण ___अथ द्वितीय नंदिषेणमुनिचरित्रं प्रारभ्यते-भूभूषणे मगधाख्ये देशे नंदिग्रामाभिध एको ग्रामोऽस्ति. तत्र ग्रामे सोमिलाख्य एको द्विजो वसतिस्म, सोऽतीवदारियाभिभूतो भिक्षायाचनेन चरित्रं निजनिर्वाहं करोतिस्म. तस्य सोमिलाख्या पत्नी बभूव. तयोर्नदिषेणाभिधो नंदनोऽभूत् . अथ तं // 11 // नंदिषेणं तदभाग्यवशात् बाल्ये एव मुक्त्वा तस्य मातापितरौ पंचत्वं प्राप्ती. अथ दुर्भगकोंदयेनं मस्तक केशादारभ्य चरणनखपर्यंतं तमत्यंतं कुरूपं दृष्ट्वा स्वजना अपि तत्यजुः. एवं निराधारो दुःखांभोधौ निमग्नः स मामांतरे निजमातुलगृहे गत्वा पशु समूहाथं चारिपानीयानयनादि सर्वमपि | गृहकार्य करोतिस्म. एवं तं निजभागिनेयं विनयपरं गृहकार्य कुर्वतं च विज्ञाय संतुष्टो मातुलस्तं जगौ, 2 हे वत्स! त्वं खेदं मा कुरुष्व ? मम सप्त कन्यकाः संति, ताभ्य एकां कन्यां त्वया सह परिणाययिष्यामि. / इति मातुलवचनं निशम्य स कुरुपो नंदिषेणो हृष्टः सन् सोत्साहं तस्य गृहकर्माणि सविशेष के K करोतिस्म. एवं क्रमेण मातुलं संतोषयन् स योवनं प्राप्तः. . अथ तस्य नंदिषेणस्य परिणायन स्वरूप गर्भितं मातापित्रोश्चेष्टितं विज्ञाय प्रथम कन्या नि everACE CEVA LAVAVAV PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #13
--------------------------------------------------------------------------
________________ नंदिषेण चरित्रं 12 // जतातं प्रति जगौ, भो तात! यदि त्वं मदीयं विवाह मनेन कुरूपेण नंदिषेणेन सह करिष्यसि / तदाहं दुःखीभूतात्माघातं विधास्ये. तवृत्तांतं निशम्य व्याकुलीभूतं चिंतापरं च नंदिषेणं विज्ञाय ! मालुलोऽवदत्, भो नंदिषेण! त्वं विषादं मां कुरु ? अहं द्वितीयां कन्यां तुभ्यं दास्यामि. परं सा // 12 // द्वितीया कन्यापि तं वृत्तांतं विज्ञाय निजतातं प्रथमपुत्रीवजगौ. एवमन्याभिः सर्वाभिः कन्याभिरपि प्रतिषिद्धः स नंदिषेणोऽतीव विषाद संप्राप्तः एवं तं विषण्णं विज्ञाय मातुलोऽवदत् , अन्यस्य कस्यापि / की पुत्री तुभ्यमहं दापयिष्यामि. ततो या याऽन्या कन्या मातुलस्तस्यार्थ मानयति, सा सा तस्य दुर्भमकर्मोदयात्तं कुरुपं विलोक्य दृष्टया वा मनसापि न समीहते. अथैवं विधं निज तिरस्कारं संभाव्य सं नंदिषेणो दध्यो, अथात्र मया किं निरर्थक स्थोयते? मम पूर्वकृतं किमपि 'दुष्कर्म प्रकटीभूतं. क अथ मया मरणस्यैव शरण करणं श्रेयः. एवं ध्यात्वा स विषण्णो नंदिषेणस्ततो निःमृत्य दुःखगर्भितपरमवैराग्यवासितांतः करणोऽनुक्रमेण रत्नपुराख्यं नगरं संप्राप्तः. तत्रापि नगरे पोरान् निजनिज सुंदरीभिः सह विविधविलासपरान्निरीक्ष्याग्निना दहन् ततो निःसृत्य वनमध्ये गतः तत्र पर्व GeeeeeeeeeGGCG P.P.AC.Gunratnasun M.S. Jun Gun Aaradhak Trust
Page #14
--------------------------------------------------------------------------
________________ मूल जातोपरि समारुह्य झंपापातं चिकीर्षुः सः कायोत्सर्गस्थमुनिनैकेन निवारितः.. तदा स नंदिषेणस्तं मुनिं प्रणम्य निजकर्मस्वरूपं जगो, यतः-रोगिणां सुहृदो वैद्याः / प्रभूणां चाटुकारिणः // सुनवों . चरित्रं दुःखदग्धानां / गणिकाऽक्षीणसंपदः // 1 // ततः स मुनिर्निजज्ञानबलेन तदीयहृदयभावमुद्भाव्य // 13 // तस्याश्वासनकृते जगौ, भो भद्र! एवमात्मघातकरणेन न कोऽपि स्वपूर्वकृतकर्मभ्यो मुक्तो भवति, प्रत्युत आर्तध्यानेन मृत्वा दुर्गतिं याति, यतः-कृतकर्मक्षयो नास्ति / कल्पकोटिशतैरपि // अवश्यकमेव भोक्तव्यं / कृतं कर्म शुभाशुभं // 1 // तत् श्रुत्वा कृतांजलिः स नंदिषेणा मनिं जगौ, हे भगवन् ! तर्हि यथाहं सुखलेशं प्राप्नुयां, तथा कमप्युपायं मह्यं कृपां विधाय यूयं दर्शयध्वं ? अथ कत योग्य विज्ञाय मुनिर्जगो, हे भद्र! श्रीवीतरागोदितधर्मकार्यकरणेन निजदुष्टकर्माणि भेदयित्वा जनोऽत्र परत्र च सुखपात्रं भवति. तस्मात्त्वं यावज्जीवं दीक्षाग्रहणेन शुद्धं धर्म कुरु? येन भवांतरे की त्वं सुखभाग् भविष्यसि. इत्यादिमुनिप्रोक्तधर्मोपदेशात्प्रतिबोधं प्राप्तः स नंदिषेणो वैराग्यवासितहृदयो तस्य मुनेः पावें दीक्षां जयाह. अथ स नंदिषेणो महामुनिर्विनयपूर्वकं धर्मशास्त्राणि पठन् क्रमेणा GENEGEGEGY SONGGEOGGEEGNER P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #15
--------------------------------------------------------------------------
________________ जटिरगमपारोणो गीतार्थोऽमृत्. ततोऽसौ गुरोरग्रे. चे यभिग्रहं जग्राह.. लघुवृद्धग्लानादिसाधूनां वैयावृत्त्यं कृत्वव मया सर्वदा भोक्तव्यं. अथैयं कृताभिग्रहः स नंदिषेणो मुनिर्नित्यं निवदं विनैव ग्लानादिसा" धूनां शुद्धहृदयेन मनागपि दुगंछामकुर्वन् वैयावृत्त्यं करोतिस्म. अथकदा निजसुधर्मासभायां स्थितः // 14 // शक्रः स्वावधिज्ञानेन तं वैयावृत्त्यपरं नंदिषेणमुनि विज्ञाय तस्य प्रशंसां कुर्वन् जगौ, भो देवाः! भरत- 12I का क्षेत्रे यादृशो नंदिषेणो मुनिः साधूनां वैयावृत्त्यकरणे निश्चलोऽस्ति, तादृशः कोऽप्यन्यो नास्ति, देवैरपि 2 निजाभिग्रहात स न चलयितुं शक्यः, एवंविधं सरेंद्रवचनं निशभ्य कश्चिदश्रदधानः सरस्त पुरोपांते समेत्यैकेन निजरूपेण ग्लानसाधुरभूत् , एवं तमतिसाररोगाभिभूतं साधु वने मुक्त्वा स 2 के द्वितीयं साधुरूपं विधाय नगरमध्ये उपाश्रयस्थस्य तस्य नंदिपेणमुनेः पार्श्वे ययो. तावत् स नंदि षेणो मुनिर्विहृत्योपाश्रये समायात ईर्यापथिकी प्रतिक्रम्य, भक्तपानप्रत्याख्यानं पारयित्वा भोक्तुमुपविशन्नभूत् . तदा स प्राधूर्णकः साधुः प्राह, भो नंदिषेणमुने! मया पूर्व श्रुतं, यत्त्वयाभिग्रहो गृहीतोस्ति, यथा ग्लानादिसाधूनां वैयावृत्त्यं कृत्वैव मया भोक्तव्यं, परमद्य त्वं ग्लानसाधुवैयावृत्त्यमकृत्वव / PP.A.GunratnasuriM.S.. . Jun Gun Aaradhak Trust
Page #16
--------------------------------------------------------------------------
________________ चरित्रं // 15 // जर कथं भोक्तुमुपविशसि.? तत् श्रुत्वा स नंदिषेणो मुनिरुत्थाय प्राह, भो साधो! स ग्लानः साधुः / क्वास्ति ? प्राधूर्णकसाधुग्वदत्, पुराबहिः स्थितोऽस्ति, स चातिसाररोगेण पोड्यते, किंच तस्य तृडपि / बाधते, अतस्त्वं शुझं बहु जलं गृहीत्वा तत्रागच्छ ? ततो निजाहारपात्राण्याच्छाद्य स नंदिषेणार्षिः का // 15 // प्रासुकं पानीयं विहां जलपात्रं गृहीत्वा श्राद्धगृहेषु गतः. अथ यत्र यत्र श्राद्धगृहे स पानीयार्थ याति, तत्र तत्र से देवों निजशक्त्या तज्जलमशुद्धं करोति. तथाप्यनिर्विण्णोऽसौ बहुषु गृहेषु भ्रमन्नकस्मात् का खिलब्धिप्रभावेण तत्सुरशक्तिमपि विजित्य शुद्धं जलं प्राप. ततस्तेन प्राधूर्णकसाधुना समं स नंदिकणर्षिर्बहिरुयाने तस्य साधोः समीपे ययौ. अथ तं साधु तथातिसाररोगपीडितं दृष्ट्वाऽस्य वैयावृत्त्ये नाहं कृतकृत्यो भविष्यामीति मत्वा तेन प्रासुकोदकेन स्वयं तस्यापानद्वारं क्षालयितुं प्रवृत्तः, एवं का यथा यथा स नंदिषेणपिस्तं प्रक्षालयति, तथा तथा स साधुरतीवदुर्गंधोपेतमतिसारं मुंचत्ति. नंदि-का षणों विचारयति, अरे! अयं भाग्यवानपि साधुः पूर्वकर्मप्राबल्येनेगतिसाररोगभागस्ति ! नूनं राज्ञावा, रंकेण वा, साधुना वा, शक्रेण वा, कृतं कर्मावश्यं भोक्तव्यमेव. ततः स नंदिषेणस्तं साधु 2 SIDH NEREAGO EGOERVER PP.AC.GunratnasuriM.S Jun Gun Aaradhak Trust
Page #17
--------------------------------------------------------------------------
________________ PeeeeNEGE // 16 // नंदिषण | निजस्कंधे समारोप्योपाभयंप्रति चचाल. अथ स ग्लानसाधुः पदे पदे कर्कशशब्दानि जल्पन् तस्य / नदिषेणर्षेः शरीरं दुर्गधया विष्टया लिंपति. तथापि स नंदिषेणो महामुनिर्मनागपि दुगंछां न चकार, चरित्रं न च तस्योपरि किंचिन्मानमपि क्रोधं विहितवान् . त्वरितं चलंतं तं नंदिषेणं सस्कंधस्थितो मुनिर्जल्पति, Lal 16 // अरे दुष्ट! एवं चलनेन मम प्राणा एव गमिष्यंति, अतः शनैश्चल ? त्वमभिग्रहीभूय मां कथमेवं / पीडयसि ? तत् श्रुत्वा यावत्स नंदिषेणो मंद मंदं चलति, तदा स जल्पति, अरे! एवं मंद मंदं / चलनतो मागें एव मम मरणं भविष्यति, आराधनांविना च मे दुर्गतिपातो भविष्यति. एवंविधान् / कि तस्याक्रोशान् सहमानो नंदिषेणमुनिस्तथाभूतं तं साधु कथंचिदुपाश्रये समानीय चिंतयामास, 2 अरेरे! अयं महात्मा साधुर्मया कथं नीरोगः कर्तव्यः? एवं चिंतयन् स निजात्मानं निंदतिस्म. अ. का 3वें साधुवैयावृत्त्यकरणे तं मेरुमिव निश्चलं मत्वा स देवः प्रत्यक्षीभूय विष्टादिः तत्सर्वं संहृत्य की तन्मस्तकोपरि पुष्पवृष्टिं चकार. कथयामास च भो नंदिषेणमुने! त्वं नूनं धन्यः कृतपुण्यश्चासि, योदशो देवसभामध्ये त्वं शक्रेण वर्णितस्ततोऽप्यधिकोऽसि. एवं तं मुनि स्तुत्वा, नत्वा. निजापराध Jun Gun Aaratifak Trust SPP.AC. Gunratnasun M.S.
Page #18
--------------------------------------------------------------------------
________________ 18. च क्षमयित्वा स देवा देवलोके ययो. एवं स नंदिषेणो महामुनि दशसहस्राब्दी तीवं तपस्तप्त्वा | नंदिषेण साधु वैयावृत्त्यैकहृदयोऽन्यदाऽनशूनं विधाय स्थितः. तदा सांतःपुरश्चक्री तस्य वंदनाथ तत्र समाचरित्रं क॥१७॥ गतः तस्य समृद्धिं दृष्ट्वा स नंदिषैणर्षिनिजमनसि चमत्कृतः. तच्चरणयोवंदनं कुर्वतीनां चक्रवर्ति॥१७॥राज्ञीनां सुकुमालमृदुकुंतलस्पर्शानुभवतः स्त्रीभोगसुखान्यभिलषन् स मुनिरिति निदानं चकार, अथाहमागामिनि भवेऽनेन तपसा भूरिस्त्रीवल्लभो भूयासं. अथैवं निदानयुतो मृत्वासौ महाशक्रदेव लोके देवोऽभूत् . इतः सूर्यपुराभिधे नगरेधकवृष्णेर्नृपस्य सुभद्राख्या राज्ञी बभूव. तस्याः समुद्रविजयः, कि अक्षोभ्यः, स्तिमितः, सागरः, हिमावान् , अचलः, धरणः, पूरणः, अभिचंद्रश्चेति नव पुत्रा बभूवुः. ततः स नंदिषेण जीवदेवोऽपि देवलोकाच्युत्वा तस्या वसुदेवाभिधो दशमो पुत्रो जातः. पूर्वभवबभ्रनिदानप्रभावत स्तस्य सौभाग्यनामकर्मोदयेन द्वासप्ततिसहस्रमिता राइयोऽभवन् . ताभिः समं च का सनानाप्रकारान् भोगविलासान् भुंक्तस्म. विस्तराच्च तत्संबंधोवसुदेवहिंडिनेमिचरित्रादिग्रंथादवसेयः. .. // इति श्री द्वितोय नंदिषेण चरित्रं समाप्तं. // श्रीरस्तु // ECOVEREECEFFEC PP Pluratasun MS . Jun Gun Aarad
Page #19
--------------------------------------------------------------------------
________________ DESISTERSeemeterest નીતિવિજયજી ભંડારે. BR // इति श्रीनंदिषेणमुनिचरित्रं समाप्तम् // D ecERSEISESISECerested REC 000000 P.P..AC.Gunratnasuri M.S. Sun Gun Aaradhak Trus!