SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ नंदिषेण कृतज्ञाहं कथमपि त्वां न मुंचामि, तथापि यदि मां तिरस्कृत्य त्वं यास्यसि, तदाहं ते आत्मघातं / विधाय स्त्रीहत्यापापं दास्यामि. इत्युक्त्वा सा दिव्यरूपलावण्योपेता यौवनारूढा वेश्या निजकटाक्षचरित्रं बाणैस्तस्य महातपखिनोऽपि नंदिषेणमुनेः संयमकवचं भित्वा बलान्निजकमलकोमले हस्ते तद्धस्तं "दृढं धृत्वा गृहमध्ये समानयत् : अथ स मुनिरपि वीरप्रभोः शासनदेव्याश्च वचनं संस्मृत्य निजभोग-2 कर्मफलं मत्वा तां वेश्यामंगीचकार. ततस्तत्रस्थः स नंदिषेणो मुनिरित्यभिग्रहं जग्राह, यन्मया प्रतिदिन दश दश नटविटादिपुरूषान् प्रतिबोध्य, दीक्षां च ग्राहयित्वैव भोक्तव्यं, अन्यथा न. एवं मुक्तमुनिलिंगः स नंदिषेणस्तेया कृतज्ञया वेश्यया सह नानाविधेद्रियविलासान् विलसन् प्रतिदिन च निजोपदेशलब्धिप्रभावादश दश जनान् प्रतिबोध्य दीक्षां ग्राहयामास. एवं च कुर्वतस्तस्य द्वादशः / / वत्सरी व्यतीता. अथैकदा तेन प्रतिबोधदानपूर्वकं नव पुरुषास्तु दीक्षा ग्राहिताः, दशमश्च मिलित एकः स्वर्णकारो बहुशः प्रतिबोधितोऽपि कथमपि प्रतिबोधं नामोति, प्रत्युत वदति च, भो नंदिषेण! यदि त्व मेवं विधां संसारासारतां जानासि, तर्हि त्वं कथमत्र वेश्यागृहे स्थितो नानाविधभोगान् / EGEVEGVEEVE PP.AC. GunratnasuriM.S. Jun Gun Aaradhak Trust
SR No.036463
Book TitleNandishen Muni Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages19
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy