SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ चरित्रं रास करो निजाश्रयदायकानां तेषां तापसानामेवाश्रमं दुर्जनं इव बभंज. अहो! अयं मदोन्मत्तौ गंजो स्माभिर्लालितः पालितोऽपि कृतघ्न इवास्माकमेवाश्रमं विनाशयति, अतोऽस्य बंधनाथ कोऽज्युपायः कर्तुं युज्यते, इति विचिंत्य ते तापसा मिलित्वा श्रेणिकनृपपावें ययुः, कथयामासुश्च तस्य सेचन॥ 5 // गजस्य सर्वमपि स्वरूपं. तत् श्रुत्वा स श्रेणिकनृपोऽपि निजसैन्यं संनह्य विचक्षणाधोरणैर्युतस्तं ॐ हस्तिनं धर्तुं वने गतः. आधोरणाश्च ते तं गजं वशीकर्तुं छलबलादिविविधोपायांश्चक्रुः, परं स गेज स्तैर्वशीकर्तुं न शक्यते. तद् दृष्ट्वा श्रेणिकनृपो निजहृदये विषण्णोऽभूत्. एवं निजतातं विषण्णीभूतं / विलोक्य नंदिषेणकुमारः स्वयं पितुराज्ञया तं गजं वशीकर्तुमुपस्थितः. तं नंदिषेणकुमारं निजसन्मुखं / समायातं विलोक्योहापोहं कुर्वन् स गजो जातिस्मरणज्ञानं प्राप्तवान्. एवं जातजातिस्मृतिः स दंती निजपूर्वभवसंबंधिनं स्वामिनं विलोक्य निजौद्धत्यं परित्यज्य तत्रैव स्थिरीभूतस्तस्थौ. एवं निजवशीभूतं तं करिणं नंदिषेणो नोत्वाश्चर्यमग्नाय निजताताय श्रेणिकभूपाय समर्पयामास.ततस्तं सेचनकं गजेंद्र पुरे नीत्वा श्रेणिकनृपो महोत्सवपूर्वकं पट्टहस्तिनं चकार, नंदिषेणकुमारमपि सविशेषं / / P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036463
Book TitleNandishen Muni Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages19
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy