Book Title: Nandanvan Kalpataru 2003 00 SrNo 09 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 5
________________ 888888888 संस्कृतभाषाया: प्रचारः प्रसारो वा न केवलं भाषां विषयीकरोति । संस्कृतवाङ्मये रक्षिताया अस्माकमार्यसंस्कारपरम्परायाः पुनरुज्जीवनं भवतु इत्यस्ति मुख्य आशयः । अद्य या विडम्बना: करुणान्तिकाश्च भारतवर्षमनुभवति ततस्तस्योद्धारस्येदमभियानमस्ति । अन्यस्या आङ्ग्लादिकाया भाषाया विरोधो वा निषेधो वाऽत्र नास्त्येव । किन्तु स्वसंस्कृतेर्हानमामन्त्र्याऽन्यस्य कस्याऽप्यादरो नार्हति । मातरमुपेक्ष्य परस्या आदरस्य नैषा संस्कृतिः । किन्तु मातरं सर्वोपरित्वेन संस्थाप्य तस्या गौरवं यथा स्यात्तथाऽन्येषामादरस्येयं संस्कृतिः । आर्यसंस्कृतिस्त्वस्माकं माताऽस्ति, नाऽन्या । संस्कृते रक्षणार्थं संवर्द्धनार्थं च संस्कृतस्य रक्षणं संवर्धनं चाऽऽवश्यकम् । तदर्थं च तस्याः प्रचारः प्रसारो वाऽप्यावश्यकः । अत्र दक्षिणदेशे संस्कृतप्रचारो जनेषु च तद्रुचिः सन्तोषप्रदे दृश्येते । अत्र संस्कृतनाटका अप्यायोज्यन्ते । तत्र च प्रबुद्धा जना विद्यार्थिनश्चाऽपि रसपूर्वकं भागं वहन्ति, तेषामानन्दं चाऽप्यनुभवन्ति । एष एतादृशश्च संस्कृतप्रचारः सार्वत्रिको भूयात् । तद्द्द्वारा चाऽस्मिन् देशे स्वकीयाया उज्ज्वलाया उन्नतायाश्च संस्कृतेर्गौरवस्य पुनरुज्जीवनं भूयात् । येन सर्वेऽपि स्वपरहितचिन्तका मानवीयगुणयुक्ताः सत्त्वशीलाश्च भूयासुरित्याशास्महे । कीर्तित्रयी वि.सं. २०५९ फाल्गुनशुक्ला पञ्चमी बेङ्गलूर: Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 154