Book Title: Mruccha Katikam Author(s): Sudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab Publisher: Tukaram Javaji View full book textPage 4
________________ मू० डा. व्य. एकादशगुच्छकः. ... ... ... ... ... ... १ ॥ द्वादशगुच्छ क.. ... ... ... ... ... ... १ 6॥ । त्रयोदशगुच्छ कः. ... ... ... ... ... ... १ ॥ अध्यात्मकल्पद्रुमः। ग्रन्थस्यास्य निर्माता तपागच्छनायकः श्रीमुनिसुन्दरसूरिरासीत् । इदं ग्रन्थरत्नं आहेतदर्शनप्रमुखतत्त्वप्रतिपादकत्वात् प्रसादशालित्वाच्च शतार्थिकश्रीसोमप्रभसूरीणां सूक्तिमुक्तावल्याः शोभामनुहरति । इदं पुस्तकं महता प्रयासेन संपाद्य विद्वद्वारा सम्यक्संशोध्यास्माभिर्मुद्रितमस्ति । मूल्यं ... आणकाः मार्गव्ययः४. __पुरुषार्थचिन्तामणिः। धर्मशास्त्रीयविद्वन्मान्यग्रन्थश्रेण्यर्होऽप्ययं ग्रन्थो दौलभ्यान्नैतदवधि बहूनां विदुषां दृष्टिसरणिमारुरोह । अस्मिंस्तावत् हेमाद्रिमाधवप्रभृतिधर्मशास्त्रग्रन्थस्थवाक्यानां परस्परविरोधपरिहारपूर्व सर्वे निर्णया एकवाक्यतयैव कृताः सन्ति । अस्य प्राचीनहस्तलिखितपुस्तकानि महता प्रयासेन संपाद्य विद्वद्वारा शोधयित्वास्माभि. मुद्रितोऽस्ति । मू. २ रु. मार्ग० .. साहित्यसारम् । श्रीमदच्युतरायप्रणीतं, सरसामेदाख्यव्याख्योपेतम् । . अयं साहित्यग्रन्थः प्राचीनालंकारसाहित्यप्रन्थपतिसमारोहणार्ह एवास्ति । अयं च ग्रन्थप्रणेत्रा आसेतुहिमालयं अखिलविद्वन्मान्य-काव्यप्रकाश-रसगङ्गाधर-सर• खतीकण्ठाभरण-ध्वन्यालोक-कुवलयानन्द-साहित्यदर्पणादिप्राचीनग्रन्थानुसंधानेनैव तत्रतत्रोदाहरणेषु तत्तदीयोदाहरणपद्यानि संकलय्य तदूरीकृतसरण्यैवायमपूर्वोऽखिलालंकारजातसर्वखभूतो निरमायि।अत्र च पृथक् पृथक् रत्नापरपर्यायाणि द्वादश रत्नानि सन्ति। अस्यावश्यकतामपूर्वरसवत्तां च रसिकाः समाकर्णनसमकालमास्वादयेयुरेव. .मूल्यं.२॥ रु. मार्ग. .. . तुकाराम जावजी, निर्णयसागराख्यमुद्रणयन्त्रालयाध्यक्षः, मुंबई.Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 444